भारतीयज्ञानपरम्परा--५

 # ऋग्वेदसूक्तानि–

सूक्तानां चत्वार: प्रकारा: वक्तुं शक्यन्ते--

१) देवतासूक्तम् – विशिष्टदेवताया: स्तुति:।

२) ऋषिसूक्तम्– विशिष्टस्य ऋषे: स्तुति:।

३) अर्थसूक्तम्– विशिष्टहेतुसाधकमन्त्राणां समूह:।

४) छन्द:सूक्तम्–विशिष्टछन्दसा रचितानां मन्त्राणां समूह:।

ऋग्वेदसूक्तानां विभाग: विषयानुसारमपि क्रियते यथा–

१) दैवतस्तुतिपरकाणि सूक्तानि– अग्निसूक्तम्, रुद्रसूक्तम् इ. 

२) संवादसूक्तानि–पुरुरवा-उर्वशीसंवाद:, विश्वामित्र-नदी-संवाद:।

३) लौकिकविषयपराणि सूक्तानि–अक्षसूक्तम्।

४) दार्शनिकसूक्तानि–नासदीयसूक्तम्, पुरुषसूक्तम्, हिरण्यगर्भसूक्तम्।

तेषु कानिचन प्रसिद्धसूक्तानि –

१) अग्निसूक्तम्–(१.१) ऋग्वेदस्य प्रथमं सूक्तम् अग्निसूक्तम्। तस्य प्रथमो मन्त्र:--

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजं होतारं रत्नधातमम्।।

अहं यज्ञस्य ऋत्विजं पुरोहितं होतारं रत्नधारिणं दीप्तिमन्तम् अग्निं स्तुत्या प्रसादयामि।

२) पुरुषसूक्तम्– (१०.९०) परमेश्वरस्य विराट्पुरुषरूपेण वर्णनम्। 

सहस्रशीर्षा पुरुष: सहस्राक्षो सहस्रपात्।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्।।

सहस्रशिरा: , सहस्रनेत्र: सहस्रचरण: स: पुरुष: (परमेश्वर:) भूमिं सर्वत: आवृत्य अपि दशाङ्गुलम् अवशिष्य तिष्ठति।

३) नासदीयसूक्तम् –(१०.१२९) सृष्टे: आरम्भात् पूर्वस्या: स्थिते: वर्णनम्।

नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्।
किमावरीव: कुह कस्य शर्मन्नम्भ: किमासीत् गहनं गभीरम्।।

सृष्टे: पूर्वं असत् सत् चापि न आसीत्। परलोक: नासीत् आकाश: ततश्च परं यत् तदपि सर्वं नासीत् । केनेदं सर्वम् आवृतम् आसीत् ? तत् आवरकं तत्त्वं कुत्र कस्य रक्षणे स्थितम् आसीत्? तदानीम् एतत् गहनं गभीरं च जलम् आसीत् किम्?

३) हिरण्यगर्भसूक्तम्–(१०.१२१)--सृष्टे: आदौ हिरण्यगर्भ: प्रजापति: प्रादुरभूत्।‌ तस्य वर्णनम् अस्मिन् सूक्ते अस्ति।

हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम।।

सृष्टे: आदौ सर्वस्य भूतजातस्य स्वामी हिरण्यगर्भ: विद्यमान: आसीत्। स: पृथिवीम् आकाशं च धारयन् आसीत्। तं विहाय कस्मै अन्यस्मै देवाय वयं हविर्भि: तर्पयाम?(स: एक: एव तर्पणयोग्य: देव: अस्ति।)

३) अस्यवामीयसूक्तम् (१०.१६४)-- गभीरतत्त्वज्ञानपरमिदं सूक्तम्। 

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्योभिचाकषीति।।

सुन्दरपक्षवन्तौ परस्परदृढसखायौ द्वौ पक्षिणौ एकस्मिन्नेव वृक्षम् आश्रितौ स्त:। तयोरेक: तस्य वृक्षस्य स्वादुफलम् अश्नाति अन्यश्च फलम् अनश्नन् केवलं स्वसखायं पश्यन् तिष्ठति। (शरीरस्थजीवात्मपरमात्मनो: वर्णनमेतत्।)

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्य: स सुपर्णो गरुत्मान्।
एकं सद्विप्रा बहुधा वदन्त्यग्निंयमं मातरिश्वानमाहु:।।

इन्द्र: मित्र: वरुण: अग्नि: तथा च दिव्य: सुपर्ण: गरुड: यम: मातरिश्वा एतै: विविधै: नामभि: बुद्धिमन्त: एकमेव सत्यं बहुधा वर्णयन्ति। (एक: एव परमेश्वर: विविधेषु रूपेषु तिष्ठति इति विचार:)

ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधिविश्वे निषेदु:।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते।।

सर्वे देवा: यस्मिन् परमे अक्षरे व्योम्नि (अक्षरब्रह्मणि) निवासं कुर्वन्ति तत्रैव ऋच: अपि निवसन्ति। तत् अक्षरब्रह्म य: न जानाति स: ऋचां पठनेन किं साधयेत्? ये जना: तत् जानन्ति ते एव तस्मिन् ब्रह्मणि निवसन्ति।

४) वाक्-सूक्तम् (१०.१२५)--

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवै:।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा।।

अहं एकादशरुद्रै: अष्टभि: वसुभि: द्वादशभि: आदित्यै: सह विश्वे सञ्चारं करोमि। अहं उभौ मित्रावरुणौ, इन्द्राग्नी अश्विनौ चेत्येतान्दैवतान् धारयामि। 

अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां मा देवा व्यदधु: पुरुत्रा: भूरिस्थात्रां भूर्यावेशयन्तीम्।।

अहं राष्ट्ररूपिणी अस्मि। वसूनां सहगामिनी (धनस्य दात्री) अस्मि। अभिलषितेषु यज्ञियवस्तुषु अहमेव प्रथमा। पूर्वकाले बहुषु स्थलेषु तिष्ठन्तीं मां देवा: अधारयन्। 

५) संज्ञानसूक्तम् (१०.१९१)--

सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सञ्जानाना उपासते।।

यथा पूर्वं देवा: समानेन ज्ञानेन यज्ञे हविर्भागं स्वीकुर्वन्ति स्म तथा भवन्त: मनुष्या अपि एकीभूय गमनागमनं कुर्यु:। एकीभूय एव भवद्भि: वक्तव्यम्। भवतां मनांसि एकीभूयैव ज्ञानस्य प्राप्तिं कुर्यु:।

समानी व: आकूति: समाना हृदयानि व:।
समानमस्तु वो मन: यथा व: सुसहासति।।

भवतां मनोभाव: समान: भवतु हृदयानि समानानि भवन्तु मन: अपि तथैव येन भवतां परस्परसौहार्दम् उत्तमं तिष्ठेत्।

६) अक्षसूक्तम् (१०.३४)--

अक्षक्रीडा मनुष्यस्य दुर्दैवाय भवति। कितवं पत्नीपुत्रादय: अपि आत्मीयं न मन्यन्ते। अत: अक्षै: मा दीव्य: कृषिमित् कृषस्व (हे कितव भवान् अक्षक्रीडां त्यक्त्वा कृषिमेव करोतु) एवं हितकारक: उपदेश: अस्मिन् सूक्ते अस्ति।

दृष्टचरितम् आख्यानम्। ऋग्वेदसूक्तेषु बहूनि आख्यानान्यपि प्राप्यन्ते यथा–विष्णो: पादाक्रमणेन त्रैलोक्यव्यापनम्, सोम-सूर्याविवाह:,इन्द्र-वृत्र-युद्धम् इत्यादि:।

ऋग्वेदे आगतानि कानिचन प्रसिद्धानि संवादसूक्तानि–

१) यम-यमी-संवाद: (१०.१०)--यम: यमी च युगलजौ आस्ताम्। तथापि यमी भ्रातरं यमं तया सह विवाहाय अभियाचनां करोति। यम: तां याचनां न स्वीकरोति। स: नैतिकदृष्ट्या स्वसृभ्रात्रो: विवाह: न योग्य: इति यमीं स्पष्टरूपेण कथयति।

२) विश्वामित्र-नदी-संवाद: (३.३३)-- सुदासराज्ञ: पौरोहित्यं कृत्वा विश्वामित्र: गोधनं गृहीत्वा विपाट् तथा शुतुद्री एतयो: नद्यो: सङ्गमम् आगच्छति। परतीरं गमनाय मार्गदानार्थं स: नद्यौ प्रार्थयते। नद्यौ अपि गाधे भूत्वा तं मार्गं यच्छत:।

३) सरमा-पणि-संवाद: (१०.१०८)--पणिनामकै: असुरै: अपहृतस्य गोधनस्य अन्वेषणार्थं प्रेषिता देवशुनी सरमा पणिनां देशं प्राप्य तत्कार्यं सम्पादयति। तदा पणय: तां विविधप्रलोभनै: वशीकर्तुं भृशं प्रयतन्ते। एष: सरमा तथा पणय: एतेषां संवाद: अस्ति।

४) पुरुरवा-उर्वशी-संवाद: (१०.९५)--पुरुरवा शापकारणात् भूतलं प्राप्तायाम् उर्वशीनाम्न्यां देवाङ्गनायाम् आसक्त: भवति। कालेन तयो: पुत्र: भवति। चतुर्वर्षेभ्य: अनन्तरम् उर्वशी मर्त्यलोकं विहाय स्वर्गमनाय उद्यता भवति। तदा विरहव्याकुल: भूत्वा पुरुरवा तां मानयितुं प्रयतते इत्येष: संवादविषयोत्र।

# ऋग्वेदस्य शाखा:--

यद्यपि ऋग्वेदस्य २१ शाखा: आसन् इति महाभाष्ये उक्तं तथापि शौनकस्य चरणव्यूहनामके ग्रन्थे ऋग्वेदस्य पञ्च शाखानाम् उल्लेख: अस्ति–शाकला बाष्कला आश्वलायनी शाङ्खायनी माण्डूकायनी। एतेषु केवलं शाकलशाखा इदानीम् अवशिष्टा। 

# यजुर्वेदसंहिता– 

यजुर्वेदस्य मन्त्रा: प्राय: गद्यात्मका: सन्ति। अनियताक्षरावसानो गद्यात्मको मन्त्र: यजु:। गद्यात्मकमन्त्रे पद्यवत् एतावन्ति एव अक्षराणि प्रतिचरणं भवेयु: एतादृश: नियम: न विद्यते। यज्ञ: यजुर्वेदस्य मुख्यविषय:। अत: एष: वेद: मुख्यतया कर्मकाण्डपर:/यज्ञपर: अस्ति। इज्यते अनेन इति यजु: इत्यपि यजु:शब्दस्य निर्वचनम्। यज्ञे अध्वर्युनामक: ऋत्विक् एतस्य मन्त्राणामुपयोगं करोति इत्यत: एष: अध्वर्युवेद: इत्यपि उच्यते।

यजुर्वेदे गद्यात्मका: मन्त्रा: सन्ति। चतुर्षु वेदेषु केवलं यजुर्वेदस्य एव संहिताद्वयम् अस्ति। शुक्लयजुर्वेद: कृष्णश्च। यजुर्वेदस्य आचार्य: वैशम्पायन: याज्ञवल्क्यस्य मातुल: गुरुश्च आसीत्। उभयो: कलह: जात:। वैशम्पायनेन दत्तविद्याया: प्रत्यर्पणाय याज्ञवल्क्य: आदिष्ट:। तदा याज्ञवल्क्येन सा विद्या वमनं कृत्वा त्यक्ता। त्यक्तविद्याया: ग्रहणं वैशम्पायनस्य शिष्यै: तित्तिरपक्षिरूपं धृत्वा कृतम्। अनन्तरं याज्ञवल्क्येनापि सूर्योपासनं कृत्वा सूर्यात् यजुर्वेद: पुन: प्राप्त:। 

तित्तिरै: प्राप्तायां संहितायां मन्त्रा: तथा च तेषां विनियोगवाक्यानि एतयो: मिश्रणं प्राप्यते। अत: शुद्धसंहितास्वरूपस्य अभावात् एष: कृष्णयजुर्वेद: इति उच्यते (विनियोगमिश्रितत्वं कृष्णत्वम्) कृष्णयजुर्वेदस्य अध्येतॄणां सम्प्रदाय: ब्रह्मसम्प्रदाय: इति उच्यते। एतस्य अध्येतु: मिश्र: इति अभिधानं भवति। याज्ञवल्क्येन प्राप्ते वेदे केवलं मन्त्रा: एव सन्ति। मन्त्रा: विनियोगवचनानि च एतेषां मिश्रणं तत्र नास्तीत्यत: एष: शुक्लयजुर्वेद:। (विनियोगामिश्रितत्वं शुक्लत्वम्) एतस्य अध्येतॄणां सम्प्रदाय: आदित्यसम्प्रदाय: इति उच्यते तथा च एतस्य अध्येता शुक्ल: इति नाम धारयति। 

याज्ञवल्क्यस्य पितु: नाम वाजसनि:। वाज: नाम अन्नम्। सनि: नाम दाता। एष: वाजसनि: अन्नस्य महान् दाता आसीत्। तस्य पुत्त्र: वाजसनेय: याज्ञवल्क्य:। एतेन शुक्लयजुर्वेदस्य वाजसनेयी संहिता इत्यपि अपरं नाम। अन्यत्र उक्तं यत् सूर्येण वाजिरूपं धृत्वा याज्ञवल्क्याय यजुर्वेदोपदेश: कृत: इत्यत: एतस्य नाम वाजसनेयी संहिता इति। 

# यजुर्वेदस्य शाखा:--

पतञ्जलिमतेन यजुर्वेदस्य संहिताद्वयस्य समेत्य एकाधिकशतं शाखा: आसन्। षड्गुरुशिष्यकृते चरणव्यूहे षडशीति: इति निर्दिष्टम्। तासु १७ शाखा: शुक्लयजुर्वेदस्य तथा ६९ शाखा: कृष्णयजुर्वेदस्येति उक्तम्। तथापि अद्यत्वे शुक्लयजुर्वेदस्य माध्यन्दिनी तथा काण्वा इति शाखाद्वयम् एव प्राप्यते। मध्याह्नसूर्यात् प्राप्ता अत: माध्यन्दिनसंहिता इति नाम। कण्वर्षे: शिष्यै: प्रचालिता अत: काण्वशाखा।  

कृष्णयजुर्वेदस्य तैत्तिरीया, मैत्रायणीया, कठी, कपिष्ठला इति शाखाचतुष्टयम् एव प्राप्यते। तैत्तिरीया इति नाम तित्तिरपक्षित: आगतमिति दृष्टम्। मित्रयु: नामकेनाचार्येण प्रणीता शाखा मैत्रायणी। कठाचार्येण प्रणीता कठशाखा, कपिष्ठलेन प्रचालिता कपिष्ठलशाखा च।

शुक्लयजुर्वेदस्य माध्यन्दिनशाखायां ४० अध्याया: तथा च १९७५ मन्त्रा: सन्ति। काण्वशाखायाम् अपि अध्याया: ४० एव तथापि मन्त्रसङ्ख्या २०८६ विद्यते। माध्यन्दिनशाखाया: १११ मन्त्रा: अत्र अधिका:। शतपथब्राह्मणानुसारं यजुर्वेदस्य अक्षरसङ्ख्या २,८८,००० अस्ति। यजुर्वेदे ६०० त: अधिका: पद्यमन्त्रा: अपि सन्ति। प्रामुख्येन ते ऋग्वेदात् स्वीकृता:। 

शुक्लयजुर्वेदसंहितयो: निर्दिष्टा: विषया: एवम्–

दर्शपौर्णमासयाग:,अग्निहोत्रम्, चातुर्मास्ययाग:,अग्निष्टोम:,अग्निचयनम्, अग्न्याधानम्, अश्वमेधयज्ञ:,पुरुषमेध:, गोमेध:, सर्वमेध:,पितृमेध: इत्यादय:। माध्यन्दिनसंहिताया: षोडशे अध्याये शतरुद्रियमन्त्रा: सन्ति। संहितायां प्रजापतिसूक्तम्, पुरुषसूक्तम्, शिवसङ्कल्पसूक्तम् अपि एतानि सूक्तानि अपि प्राप्यन्ते। माध्यन्दिननसंहिताया: ४० तम: अध्याय: नाम प्रसिद्धम् ईशावास्योपनिषद्।

कृष्णयजुर्वेदस्य तैत्तिरीयादिषु संहितासु अपि प्राय: शुक्लयजुर्वेदविषयै: समाना: एव विषया: प्राप्यन्ते।