भारतीयज्ञानपरम्परा--४

 # संहितानां विषये अधिकम्–

१) ऋग्वेदसंहिता ऋच्यते स्तूयते देवता अनया। इति ऋक्शब्दस्य व्युत्पत्त्यनुसारं ऋग्वेद: देवतास्तुतिपरकमन्त्राणां समूह: वर्तते। यज्ञेषु होतृनामक: ऋत्विक् एतस्य मन्त्राणामुपयोगं करोतीत्यत: एष: होतृवेद: इत्यपि कथयन्ति। एतासां मन्त्राणां नाम ऋचाम् उपयोग: होतृनामक: पुरोहित: यज्ञे देवतावाहनार्थं करोति।चतुर्षु वेदेषु ऋग्वेद: प्राचीनतम: बृहत्तम: च। एकदेवतापरकाणां कतिपयानाम् ऋचां समूह: सूक्तम् इति उच्यते। बृहद्देवताग्रन्थे तु सम्पूर्णं ऋषिवाक्यं सूक्तमित्यभिधीयते। एवं सूक्तस्य वर्णनं कृतम्। 

ऋग्वेदसंहिताया: रचनाया: प्रकारद्वयं वर्तते–

अ) अष्टक-अध्याय-वर्ग-मन्त्र-पद्धति:।

आ) मण्डल-अनुवाक- सूक्त-मन्त्र-पद्धति:

प्रथमवर्गीकरणानुसारं कतिपयमन्त्राणाम् एक: वर्ग:,कतिपयवर्गाणामेक: अध्याय:, अष्ट अध्यायानाम् एकम् अष्टकं भवति। अनया पद्धत्या ऋग्वेदे अष्ट अष्टकेषु ६४ अध्याया: २०२४ वर्गा: तथा च १०५८० मन्त्रा: सन्ति।

द्वितीयवर्गीकरणानुसारं कतिपयमन्त्राणामेकं सूक्तं , कतिपयसूक्तानामेक: अनुवाक:, कतिपयानुवाकानाम् एकं मण्डलं भवति। अनया रीत्या ऋग्वेदे १० मण्डलानि ८५ अनुवाका:, १०२८ सूक्तानि तथा १०५८० मन्त्रा: विद्यन्ते। समेत्य ऋग्वेदस्य अक्षराणां सङ्ख्या ४,३२,००० इति वदन्ति। 

अष्टममण्डले ४९ त: ५९ पर्यन्तम् ११ सूक्तानि वालखिल्यसूक्तानीति प्रसिद्धि:। वालखिल्यनामका: अङ्गुष्ठप्रमाणा: तेजस्विन: षष्टिसहस्रसङ्ख्या: ऋषय: आसन्। तै: दृष्टानि एतानि सूक्तानि। 

पुनश्च कतिपयसूक्तानि खिलसूक्तानीति ज्ञायन्ते। खिलशब्दस्यार्थ: परिशिष्टम् इति। एतानि सूक्तानि बहुधा अन्तिमस्य दशममण्डलस्य रचनाया: अनन्तरं ऋग्वेदे परिशिष्टवत् समावेशितानि सन्ति। एतेषां सङ्ख्या मोक्षमुलरेण ३२ ऑफ्रेमहोदयेन २५ सातवलेकरमहोदयेन ३६ इति दर्शिता अस्ति। ११ वालखिल्येषु १ त: ८ सूक्तानि खिलानि। चितामणिकाशीकरमहोदयेन ८६ खिलसूक्तानि पञ्चसु अध्यायेषु विभक्तानि सन्तीति उक्तम् अस्ति। सौपर्णसूक्तं, श्रीसूक्तं रात्रिसूक्तं शिवसङ्कल्पसूक्तं संज्ञानसूक्तम् इतीमानि कानिचन प्रसिद्धानि खिलसूक्तानि वर्तन्ते।

ऋग्वेदस्य दश मण्डलानि एवं सन्ति–


एतेषु प्रथमं दशमं च अर्वाचीने मण्डले स्त: इति भाषाविद:। 

सूक्तस्य द्रष्टा ऋषि:, देवता छन्द: विनियोग: इत्येतानंशान् अविदित्वा कृतं तस्य अध्ययनम् अध्यापनं वा निष्फलं भवति। 

अविदित्वा ऋषिश्छन्दो दैवतं योगमेव च।
योध्यापयेद्याजयेद्वा पापीयान् जायते तु स:।।

द्वितीयात् सप्तममण्डलपर्यन्तं षट् मण्डलानि गोत्रमण्डलानि अथवा वंशमण्डलानि इति उच्यन्ते।गृत्समद- विश्वामित्र- वामदेव- अत्रि- भरद्वाज- वसिष्ठा: षट् ऋषय: तेषां च गोत्रापत्यानि क्रमेण एतेषां मण्डलसूक्तानां द्रष्टार: सन्ति। अन्येषु चतुर्षु मण्डलेषु अनेके ऋषय: मन्त्रद्रष्टार: सन्ति। नवमं मण्डलं पूर्णतया सोमदेवतायै समर्पितम् अस्ति। तस्य पवमानमण्डलम् इति आख्या। ऋग्वेदे घोषा, विश्ववारा, अपाला, शची, अदिति: इत्यादय: २४ ऋषिका: मन्त्रद्रष्टार: सन्ति। 

देवशब्दस्य निर्वचने यास्क: वदति–देव: दानात् वा द्योतनात् वा दीपनात् वा। देवा: दानशीला:,तेजस्विन: च सन्ति। देवतानां त्रिधा विभाजनं भवति–पृथ्वीस्थानीया: अन्तरिक्षस्थानीया: द्युस्थानीया:। तासु मुख्यदेवता: तिस्र: एव। अग्नि: पृथिवीस्थानीया मुख्यदेवता वायु: अन्तरिक्षस्थानीया सूर्यश्च द्युस्थानीया। अन्या: देवता: एतासामेव तिसृणां भिन्ना: अभिव्यक्तय: सन्ति।  

ऋग्वेदसूक्तानां देवतासु इन्द्र: सर्वप्रधान:। ऋग्वेदे २५० इन्द्रसूक्तानि सन्ति। तदनन्तरं अग्नि: तदनन्तरं च सोम: एतयो: स्थानम् अस्ति। आहत्य २०० अग्निसूक्तानि १२३ सोमसूक्तानि सन्ति। विष्णु: रुद्र: वरुण: सूर्य: अश्विनौ मरुत: उषा: इत्यादय: अन्या: काश्चन प्रमुखा: ऋग्वेदीयदेवता:। कदाचित् देवताद्वयस्य एकत्र उल्लेख: भवति यथा नासत्यौ, इन्द्राग्नी, मित्रावरुणौ, सूर्याचन्द्रमसौ, द्यावापृथिव्यौ। अश्विनौ (नासत्यौ) सर्वदा युगलरूपेण तिष्ठत:। विश्वेदेवा: मरुत: एते सर्वदा बहुवचने एव उल्लिख्यन्ते। रात्रि:, नदी, पर्जन्य: इत्यादय: निसर्गशक्तय: अपि देवतारूपेण स्तूयन्ते।

यदक्षरपरिमाणं तत् छन्द:। यस्याम् अक्षराणां सङ्ख्या नियता अस्ति सा रचना छन्द: इति कथ्यते। ऋग्वेदे आहत्य २० छन्दसाम् उपयोग: कृत: अस्ति। तेषु सप्त छन्दांसि मुख्यानि– गायत्री उष्णिक् अनुष्टुप् बृहती पङ्क्ति: त्रिष्टुप् जगती च।

छन्दांसि तथा तेषामक्षरसङ्ख्या एवम्–