भारतीयज्ञानपरम्परा--३

 # वेदशाखा: --

अनन्तरकाले गुरुपरम्परया पठन-पाठनपद्धत्यनुसारं, स्थानभेदेन वा वेदानां शाखा: समुत्पन्ना:। शाखा नाम पाठनपरम्परानुसारं वेदसंहिताया: विशिष्टं रूपम्। शाखाया: चरण: इत्यपि अपरं नाम। प्रतिशाखं मन्त्रसङ्ख्या, मन्त्रक्रम:, उच्चारणवैशिष्ट्यानि इत्यादिकं किञ्चित् किञ्चित् भिद्यते। एवं ऋग्वेदस्य एकविंशति:, यजुर्वेदस्य एकाधिकशतं सामवेदस्य सहस्रं अथर्ववेदस्य नव शाखा: आसन् इति महाभाष्यकार:। 

एकविंशतिधा बाह्वृच्यम् । एकशतम् अध्वर्युशाखा:। सहस्रवर्त्मा सामवेद:। नवधाथर्वणो वेद:।

# वेदस़ंहितानां पाठपद्धतय:--

वेदानां पठनपाठनस्य आहत्य एकादश पद्धतय: सन्ति। तासां पाठा: इति आख्या।   

प्रकृतिपाठे मन्त्रस्य पदक्रम: यथावत् तिष्ठति। संहितापाठ: पदपाठ: क्रमपाठ: इत्येते त्रय: प्रकृतिपाठा:। मधुशिक्षानामके ग्रन्थे उक्तं यत् संहितापाठस्य कर्ता स्वयं भगवान्। रावण: पदपाठं प्राह। क्रमपाठस्य कर्ता बाभ्रव्यनामक: ऋषि:। 

भगवान्संहितां प्राह पदपाठस्तु रावण:।
बाभ्रव्यर्षि: क्रमं प्राह जटां व्याडिरवोचत्।।

संहितापाठे पदानि सन्धियुक्तानि भवन्ति। पदपाठे सन्धियुक्तपदानां विच्छेदं कृत्वा पृथक् पृथक् उच्चारणं भवति। तथापि वेदशाखानुसारं तस्य भिन्ना: नियमा: सन्ति अत: संहितापाठात् पदपाठ: कठिन:। शाखानुसारमपि पदपाठस्य कर्तार: प्रोक्ता:। यथा ऋग्वेदस्य शाकलशाखाया: पदपाठस्य कर्ता शाकल्य: यजुर्वेदस्य तैत्तिरीयशाखाया: पदपाठकर्ता आत्रेय: सामवेदस्य कौथुमशाखाया: गार्ग्य:।

क्रमपाठे क्रमेण पदद्वयस्य सन्धिं कृत्वा १-२,२-३,३-४ एवम् उच्चारणं भवति। एतेषु पूर्वपूर्वपाठ: अनन्तरपाठस्य प्रकृति: अनन्तरपाठश्च पूर्वस्य विकृति: इति वक्तुं शक्यते। तथापि मन्त्रे य: पदक्रम: स: एतेषु त्रिषु यथावत् तिष्ठतीति कृत्वा एते त्रय: प्रकृतिपाठा: इति उच्यन्ते।

यस्यां पाठपद्धतौ मन्त्रपदक्रम: परिवर्त्यते स: विकृतिपाठ:। 

जटा माला शिखा रेखा ध्वजो दण्डो रथो घन:।
अष्टौ विकृतय: प्रोक्ता: क्रमपूर्वा महर्षिभि:।।

जटा,माला, शिखा,रेखा,ध्वज:, दण्ड: , रथ:, घन: एता: अष्ट विकृतिपाठा:। एतेषु पदक्रमस्य बहुधा परिवर्तनं भवति पूर्वपूर्वस्यापेक्षया उत्तरोत्तर: पाठ: कठिन:। 

उदाहरणतया एतेषु केषुचित् पाठेषु पदक्रम: एवं भवति–

१) जटा १ २ २ १ १ २~ २ ३ ३ २ २ ३

२) माला १ २ ~२ १ ~१ २~ २ ३ ~३ २ ~२ ३

३) शिखा १ २~ २ १~ १ २ ३ ~ २ ३ ~३ २~ २ ३ ४

४) रेखा १ २~२ १~ १ २~ २ ३ ४ ~ ४ ३ २~२ ३~३ ४ ५ ६~६ ५ ४ ३ ~३ ४

जटापाठस्य ऋषि: व्याडि:, मालाया: वसिष्ठ:,शिखाया: भृगु:,रेखाया: अष्टावक्र:, ध्वजस्य विश्वामित्र:, दण्डस्य पराशर:,रथस्य कश्यप:,घनस्य अत्रि: इति कथ्यते। 

एतै: पाठै: वेदस्य मौखिकपरम्परा आसहस्रवर्षेभ्य: यथावत् रक्षिता। वेदे पदस्वरस्य यत्किञ्चितमपि परिवर्तनं नाभवत्। 

# वेदस्य ऋत्विज:--

यज्ञस्य पुरोहित: ऋत्विक् इति उच्यते। ऋतौ यजतीति ऋत्विक्। ऋत्विक् सर्वेषु ऋतुषु यज्ञं करोति कारयति वा।

अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान्मखान्।
य: करोति वृतो यस्य स तस्यर्त्विगिहोच्यते।। 

प्रत्येकं वेदस्य एक: प्रमुख: ऋत्विक् तस्य अन्ये त्रय: सहायका: भवन्ति। आहत्य षोडश ऋत्विज:। तेषां नामान्येवम्–

मुख्यर्त्विगनुसारं चतुर्णां वेदानां नामानि होतृवेद: अध्वर्युवेद:,उद्गातृवेद: ब्रह्मवेद: एवमपि भवन्ति। यज्ञे देवतानाम् मन्त्रपठनेन आह्वानं होतृकर्म। अध्वर्यु: देवतामुद्दिश्य अग्नौ हवि: अर्पयति। उद्गाता मन्त्रगायनेन दैवतस्तुतिं करोति। ब्रह्मा यज्ञस्य प्रमुख:। स: यज्ञस्य सञ्चालनं सुचारुरूपेण सम्पादयति।

चतुर्णां मुख्यर्त्विजानाम् उल्लेख: अग्रिमर्चि प्राप्यते–

ऋचां त्व: पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरिषु।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां प्रमिमीत उ त्व:।।