भारतीयज्ञानपरम्परा--२

 # वेदानां रचनाकाल: – वेद: अपौरुषेय:, ईश्वरेण ऋषीणां हृदये तस्य प्रकाशनं कृतम् अत: स: कालातीत: इति भारतीयपरम्परा। तथापि पाश्चात्त्यै: वेदस्य अध्ययनम् आरब्धं तदाप्रभृति तेषां रचनाकालस्य विषये विचार: प्रचलित:। १८ तमे शतके वेदानां भाषाशैली, तेषां रचनावैशिष्ट्यानि, वेदेषु प्राप्ता: खगोलीयभूवैज्ञानिकसन्दर्भा: एतान् अवलम्ब्य पाश्चात्त्यै: तथा तेषामनुकरणेन आधुनिकभारतीयविद्वद्भिरपि वेदानां रचनाकालस्य निर्धारणार्थं प्रयत्ना: आरब्धा:।  

अ) मोक्षमुलर:-- वेदानां कालनिर्धारणस्य सर्वप्रथम: प्रयत्न: अनेन कृत:। बुद्धेन वैदिक्या: यज्ञीयहिंसाया: खण्डनं कृतम्। एतदेव आधारीकृत्य वेदस्य रचनाकाल: बुद्धात् पूर्वम् अस्तीति मोक्षमुलरेण प्रतिपादितम्। तेन निर्धारिता: वेदरचनाकालस्य विभागा: –

१) छन्द:काल: (इ स पूर्वं १२०० त: १०००) --प्रथमं निविद्-मन्त्रा: तथा च केचन अन्येपि मन्त्रा: स्फुटरूपेण तदा तदा रचिता: अभवन्।

२) मन्त्रकाल: (इ स पूर्वं १००० त: ८००)-- अस्मिन् कालावधौ मन्त्रसंहिता: रचिता: अभवन्।

३) ब्राह्मणकाल:(इ स पूर्वं ८०० त: ६००)--एतस्मिन्काले वेदमन्त्राणां व्याख्यानरूपाणि ब्राह्मणानि रचितानि।

४) सूत्रकाल:( इ स पूर्वं ६०० त: ४००) – अस्मिन्काले श्रौतादीनि सूत्राणि रचितानि अभवन्। 

तथापि बोगाझकोई इत्यत्र इ स पूर्वं १४०० मध्ये निर्मितानां शिलालेखानां प्रापणात् मोक्षमुलरस्य मतं सर्वथा निरस्तम् अभवत् यत: एतेषु शिलालेखेषु इन्द्रवरुणादीनां वैदिकदेवतानाम् उल्लेख: प्राप्यते।

२) वेबर – एतस्य मतेन योग्यसंसाधनानाम् अभावात् वेदस्य कालनिर्धारणं सर्वथा अशक्यं भाति। स्वस्य History of Indian literature इत्यस्मिन् ग्रन्थे तेन अङ्गीक्रियते यत् any such attempt at defining the antiquity of the Vedas is absolutely fruitless.

३) जैकोबी– गृह्यसूत्रेषु विवाहसंस्कारविधिवर्णने ध्रुवदर्शनस्य उल्लेख: प्राप्यते। ध्रुवतारकाया: एतम् उल्लेखम् अवलम्ब्य खगोलीयगणनाधारेण जैकोबीमहोदयेन इ स पूर्वं ४५०० इति वेदरचनाकाल: निर्धारित:। 

३) बालगङ्गाधरतिलक:-- वसन्तसम्पातदिने विद्यमानानां नक्षत्राणां ये उल्लेखा: वैदिकवाङ्मये प्राप्यन्ते तदाधारेण तिलकमहोदयेन वेदानां रचनाकालस्य चत्वार: विभागा: प्रदर्शिता:--

अ) अदितिकाल: (इ स पूर्वं ६००० त: ४०००)--एष: निविद्-मन्त्राणां रचनाकाल:।

आ) मृगशीर्षकाल: (इ स पूर्वं ४००० त: २५००)--ऋग्वेदस्य प्राय: सर्वेषां सूक्तानां रचना।

इ) कृत्तिकाकाल: (इ स पूर्वं २५०० त: १४००) – चतुर्णां वेदानां सङ्कलनम्।

ई) सूत्रकाल; ( इ स पूर्वं १४०० त: ५००)--सूत्रग्रन्थानां दर्शनानां च निर्मिति:। 

४) दयानन्दसरस्वती– पारम्पारिकं मतम् अवलम्ब्य महोदयेन वेदानाम् आविर्भाव: सृष्टे: आविर्भावेन समान: इति प्रतिपादितम्।

५) अविनाशचन्द्रदास: – वेदे सरस्वतीनद्या: वर्णनं प्राप्यते। एषा नदी इदानींतने राजस्थानप्रदेशे अनन्तरं विलुप्ता अभवत्। एषा घटना इ स पूर्वं २५००० मध्ये घटिता। तत: पूर्वमेव ऋग्वेदस्य रचना पूर्णा जाता आसीत्।

६) शङ्करदीक्षित:-- शतपथे प्राप्तस्य कृत्तिकावर्णनस्य आधारेण तस्य ग्रन्थस्य काल: इ स पूर्वं २५०० इति निर्धार्य तत: पूर्वम् एकसहस्रं वर्षाणि संहिताकाल: स्यात् इति एतेन महोदयेन प्रतिपादितम्।

७) विंटरनिट्झ्– एतेन महोदयेन सर्वेषां मतानां समन्वयं कृत्वा इ स पूर्वं २५०० इति संहिताकाल: अस्तीति प्रतिपादितम्।

# वेदविभाग:---

वेदा: हि यज्ञार्थमभिप्रवृत्ता: इति स्मर्यते। अत: वेदमन्त्राणां मुख्योपयोग: यज्ञकर्मणि भवति। 

चत्वार: वेदा: ऋग्यजु:सामाथर्वाख्या:। भगवता व्यासेन वेदरक्षणाय क्रमश: एते पैलवैशम्पायनजैमिनीसुमन्तुभ्य: दत्ता:। 

प्रत्येकं वेद: द्विधा विभज्यते। ऋषिभि: साक्षात्कृतां यज्ञीयमन्त्राणां ऋचां वा सङ्ग्रह: वेदस्य संहिता-नामके प्रथमे भागे विद्यते। पूर्वकाले केवलम् एष: एव मन्त्रात्मको भाग: वेदशब्देन उच्यते स्म। वेदानां नामानि ऋग्जुसामानि मन्त्रपराण्येव सन्ति।

वेदस्य द्वितीये भागे ब्राह्मण-संज्ञके वेदमन्त्राणाम् अर्थस्य व्याख्यानं यज्ञे तेषामुपयोगस्य विवरणं च अस्ति। अनन्तरकाले एष: विवरणात्मकभाग: अपि वेदशब्दस्य अर्थे समाविष्ट: अभवत्।

एवं संहिता: ब्राह्मणानि चेति द्विविधं वेदस्वरूपम्। अत: आपस्तम्बाचार्य: मन्त्रब्राह्मणयोर्वेदनामध्येयम् इति वदति। 

षड्गुरुशिष्योपि एवमेव–

मन्त्रब्राह्मणयोराहुर्वेदशब्दं महर्षय:।
विनियोक्तव्यरूपो य: स मन्त्र: इति चक्षते।।
विधिस्तुतिकरं शेषं ब्राह्मणं कथयन्ति हि।

ब्राह्मणानाम् अपरभागे यज्ञस्य आध्यात्मिकं विवेचनं प्रारभ्यते। एतस्य भागस्य नाम आरण्यकम् इति। आरण्यके यत् आध्यात्मिकचिन्तनम् आरब्धम् तस्य परिष्कृतरूपं उपनिषद्-भागे प्राप्यते। एष: वेदानाम् अन्तिम: भाग: अत: वेदान्त: इत्यपि एतस्य अपरसंज्ञा। एवं ब्राह्मणान्तर्गतयो: आरण्यकोपनिषद्भागयो: कारणात् संहिता-ब्राह्मण-आरण्यक-उपनिषद: इत्येते वेदस्य चत्वार: भागा: सन्तीति मान्यता।

संहिताब्राह्मणे उभे मिलित्वा वेदस्य कर्मकाण्डं भवति तस्य यज्ञक्रियासम्बद्धत्वात्। आरण्यकोपनिषदौ मिलित्वा वेदस्य ज्ञानकाण्डं भवति तयो: आध्यात्मिकविवेचनस्वरूपत्वात्। यज्ञक्रियाया: आध्यात्मिकविवेचनम् आरण्यकेषु, ईश्वर: जीव: जगत् एतेषां परस्परसम्बन्ध: तेषां स्वरूपं, मोक्ष: इत्यादि दार्शनिकविषयाणां विवेचनम् उपनिषत्सु विद्यते।