२१ /२२ मार्च इत्येतत् दिनं वसन्तसम्पातदिनम् (Vernal Equinox/Spring Equinox) आसीत्। तदा आरभ्य भारतीयसौरचैत्रस्य आरम्भ:। तदेव दिनम् अस्माकं नववर्षारम्भदिनं भवेत्।
भारते विद्यमाना: विविधा: कालगणनापद्धतय: सम्भ्रमोत्पादिका: सन्ति। अत: १९५७ मध्ये डॉ. मेघनादसाहामहोदयस्य आध्यक्षे भारतसर्वकारेण दिनदर्शिका-परिशोधन- समिति: निर्मिता।
एतया समित्या निर्मिता भारतीयसौरदिनदर्शिका विविधकालमापनपद्धतिषु श्रेष्ठा तासां परस्परविरोधस्य शमयित्री च।
एषा कालगणना सायनपद्धतौ आधारिता। एतस्या: वर्षं ३६५.२४२२ दिनात्मकम्। भारते शालिवाहनशकस्य लोकप्रियताया: कारणात् शक: इत्येव नाम अत्रत्यसंवत्सरस्य कृते स्वीकृतम्। ग्रेगोरिअनसंवत्सरानन्तरं ७८ वर्षाणि एतस्य संवत्सरस्य आरम्भ: अत: ग्रेगोरियनवर्षसंख्यात: ७८ व्यवकलय्य एतस्य सङ्ख्या प्राप्यते। इदानीं २१ मार्चदिने आरब्ध: भारतीयसौरशक: = २०२४-७८= १९४६.
एतस्य मासनामान्यपि भारतीयानि चैत्रादीनि। वस्तुत: २१ मार्च इत्यस्मात् वसन्तसम्पातदिनात् एव उत्तरगोलार्धे सूर्यस्य उत्तरदिशि गमनं प्रारभ्यते। तेन एतस्माद्दिनादेव वसन्तर्तो: आरम्भ: भवति। अत: ऋतुचक्रेण एतस्या: कालगणनाया: पूर्णतया समन्वय: भवति। २१ मार्च एतदेव अस्य वर्षस्य प्रथमं दिनम् --१ चैत्र: इति।
अस्यां कलगणनायां दिनस्य आरम्भ: मध्यरात्रे एव ०.०० वादनात् भवति। एतस्य चैत्रमासे ३०/३१ दिनानि, वैशाख:, ज्येष्ठ: , आषाढ:, श्रावण:, भाद्रपद: एते प्रत्येकं ३१ दिनात्मका:। आश्विन:, कार्तिक:, मार्गर्शीर्ष:, पौष:, माघ: फाल्गुन: एते षट् मासा: ३० दिनात्मका:। उत्प्लाविवर्षे (Leap Year) चैत्र: ३१ दिनात्मक:।
यदा शकवर्षं +७८ एषा सङ्ख्या ४ अङ्केन विभाज्या तदा तत् उत्प्लाविवर्षम्। सा यदा १०० सङ्ख्यया विभाज्या तदा तन्न उत्प्लाविवर्षम्। पुनश्च सा यदि १०० तथा ४०० इत्येताभ्यां उभाभ्यामपि विभाज्या तदा स: उत्प्लाविसंवत्सर:।
श्व: आरभमाणं वर्षं चान्द्रवर्षम्। तस्य आरम्भदिनं यद्यपि धार्मिकदृष्ट्या महत्त्वपूर्णं तथापि चान्द्रवर्षस्य सौरवर्षेण ऋतुचक्रेण च सामञ्जस्यं स्थापयितुं क्लेश:।
अत: २१ मार्चदिनाङ्कात् (विषुवदिनात्/वसन्तसम्पातात्) यदारब्धं तदेव भारतीयसौरवर्षं व्यवहारार्थं ग्राह्यम्।
आकाशवाणी, सर्वकारस्यास्थापना: इत्यादिषु सर्वत्र एतस्य उद्घोषणा, सर्वकारीय कर्गजपत्रेषु लेखनं च सर्वदा भवति। वयमपि तदेव अनुसराम: चेत् सर्वकार: वा अन्य: कोपि वा तत् निराकर्तुं न प्रभवति।