भारतीयज्ञानपरम्परा--१

आमुखम्

संस्कृतं भारतीयानां ज्ञानविज्ञानस्य भाषा अस्ति। सहस्रावधिवर्षाणां भारतीयचिन्तनं तत्प्रसूतं साहित्यं च संस्कृतेनैव निबद्धम्। संस्कृते यथा काव्यनाटकादि विपुलं साहित्यं तथैव गणितम्, स्थापत्यम्, योग:, आयुर्वेद:, वास्तुविद्या, धातुविज्ञानम्, कृषिशास्त्रम्, खगोलशास्त्रम् इत्यादीन् वैज्ञानिकविषयानधिकृत्यापि विपुला ग्रन्थनिर्मिति: जाता अस्ति। 

सामान्यत: संस्कृते विद्यमानं ज्ञानम् अधिगन्तव्यं चेत् वेदादेव अध्ययनारम्भ: करणीय: यत: जगद्विषयकं सम्पूर्णं ज्ञानं वेदादेव आगतमिति भारतीयानां मान्यता। वैदिकवाङ्मयसम्बद्धानि कतिपयानि शास्त्राणि अध्येतव्यानि भवन्ति। तानि विद्यास्थानानीति कथ्यन्ते। चतुर्दशविद्यास्थानानि मुख्यत्वे परिगणितानि। 

पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिता:। 
वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश।।

अष्टादश पुराणानि, न्यायशास्त्रम् (तर्कशास्त्रम्), मीमांसा (पूर्वमीमांसा, उत्तरमीमांसा च), धर्मशास्त्रम् ( मन्वादय: स्मृतय:) शिक्षा, कल्प:, व्याकरणम्, निरुक्तम्, छन्द:शास्त्रम्, ज्योतिषम् एतानि षट् वेदाङ्गानि

ऋग्वेद:, यजुर्वेद:, सामवेद:, अथर्ववेद: एते चत्वार: वेदाश्च एवमाहत्य चतुर्दशविद्यास्थानानि भवन्ति। पुन: तेषु आयुर्वेद:, धनुर्वेद:, गान्धर्ववेद:, अथर्ववेद: एतेषां चतुर्णाम् उपवेदानां समावेशं कृत्वा विद्यास्थानानां सङ्ख्या १८ भवति।

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रय:।
अर्थशास्त्रं चतुर्थं च विद्या अष्टादशैव ता:।।

# वेदवाङ्मयम्

ऋग्वेद: यजुर्वेद: सामवेद: अथर्ववेद: एते चत्वार: वेदा: भारतीयानां धर्मस्य आद्यग्रन्था: सन्ति। किञ्च ते सम्पूर्णा भारतीया संस्कृति: धर्मश्च अनयो: मूलस्रोतांसि सन्ति । अत: य: भारतीयसंस्कृते: धर्मस्य वा परिचयं प्राप्तुम् इच्छति तस्य कृते वेदानामध्ययनम् अनिवार्यम्। देवपितृमनुष्याणां वेदचक्षु: सनातनम्। इति मनूक्ति:।

# वेदशब्दार्थ:--

वेदशब्द: ज्ञानार्थकात् विद्-धातो: घञ् प्रत्ययेन निष्पन्न:। तेन एतस्य मूलार्थ: ज्ञानराशि: इति अस्ति। 

तथापि  विद् धातु: समेत्य पञ्चसु धातुगणेषु प्राप्यते। विद् ज्ञाने इति अदादि:, विद् सत्तायाम् इति दिवादि:, विदलृ लाभे इति तुदादि:,विद् विचारणे इति रुधादि:,विद् चेतनाख्याननिवासेषु चुरादिश्च। एतेभ्योपि घञ् प्रत्ययेन वेदशब्दनिष्पत्ति: भवति। विद्-धातुविषयिणी इयं कारिका चतुर्णाम् उल्लेखं करोति–

सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे।
विन्दति विन्दते प्राप्तौ श्यन्लुप्श्नम्शेश्विदं क्रमात्।।

एतदनुगुणं वेदा: शाश्वतस्थायिन:, ज्ञानसङ्ग्रहरूपा:, मनुष्यकर्तव्यबोधका:,मानवहितप्रापकाश्च सन्ति।

वेदशब्दस्य व्याख्या: विविधै: ऋषिभि: विद्वद्भिश्च दत्ता: सन्ति।  ध्यानस्थितानां ऋषीणाम् अन्त:करणे वेदानाम् आविष्कार: परमेश्वरेण कृत: इति मान्यता। पश्यन्ती मध्यमा च इत्यनयो: वाण्यो: माध्यमेन आविर्भूतम् एतज्ज्ञानं ऋषिभि: वैखर्या शब्दबद्धं कृतम्। अत: ऋषय: न वेदस्य निर्मातार: अपि तु केवलं द्रष्टार: सन्ति। केनापि मनुष्येण वेद: न निर्मित: अत: अपौरुषेयं वाक्यं वेद:। इति व्याख्या। 

धर्म: अर्थ: काम: मोक्षश्च एतेषां चतुर्विधपुरुषार्थानां सिध्यर्थम् अलौकिकोपायान् कथयन्ति वेदा:। अत: विद्यन्ते ज्ञायन्ते लभ्यन्ते वा एभिर्धर्मादिपुरुषार्था: इति वेदा: इति विष्णुमित्र:। 

इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकोपायं यो ग्रन्थो वेदयति स वेद:  इति सायण:। स: अन्यत् च वदति–

प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते।
एनं विदन्ति वेदेन तस्मात् वेदस्य वेदता।।

प्रत्यक्षतया अथवा तर्केण इष्टप्राप्ते: अनिष्टपरिहारस्य य: उपाय: ज्ञातुं न शक्यते तादृश: उपाय: वेदात् एव ज्ञात: भवति अत: एतदेव वेदस्य वेदत्वम्।

# वेदोत्पत्ति:--

यद्यपि वेद: अपौरुषेय: तथापि तस्योत्पत्ति: पुराणशास्त्रेषु विविधप्रकारेण श्रूयते। वेदा: शाश्वता:  तेषामत्पत्ति: न शक्या।  एषा उत्पत्ति: नाम प्रलये अव्यक्तीभूतानां वेदानां सृष्ट्यादौ पुन: व्यक्तीभवनमेव। 

चत्वार: वेदा: प्रथमत: ब्रह्मण: चतुर्भ्य: मुखेभ्य: प्रादुरभवन् इति मार्कण्डेयपुराणे। मनुस्मृतिस्तु वदति यत् ब्रह्मणा पुन: यज्ञसिध्यर्थम् अग्निवायुरविभ्य: ऋग्यजु:सामवेदा: दोहनं कृत्वा प्राप्ता:। 

अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम्।
दुदोह यज्ञसिध्यर्थमृग्यजु:सामलक्षणम्।।

कौर्मे उक्तं यत् पूर्वम् एक: एव वेद: आसीत्–यजुर्वेद:। अष्टाविंशतितमे द्वापरयुगे पाराशर्य: महायोगी कृष्णद्वैपायन: बभूव। तेन साम्बसदाशिवस्य अर्चनं कृत्वा तत्प्रसादात् वेदज्ञानं प्राप्तम्। तेन च वेदज्ञानस्य रक्षणार्थं स: वेद: चतुर्धा विभज्य प्रत्येकं भाग: एकैकस्मै शिष्याय प्रदत्त:। ऋग्वेद: पैलाय, यजुर्वेद: वैशम्पायनाय, सामवेद: जैमिनये पुनश्च अथर्ववेद: सुमन्तुनामकाय शिष्याय प्रदत्त:। एतेन कृष्णद्वैपायनस्य नाम व्यास: इति अभवत्। व्यास: इत्युक्ते विभागकर्ता।

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया।
विव्यास वेदान् यस्मात्स तस्माद्व्यास इति स्मृत:।।

# वेदस्य अन्यानि नामधेयानि–

अ) आम्नाय:-- आ उपसर्गपूर्वकात् भ्वादिगणीयात् म्ना अभ्यासे एतस्माद्धातो: निष्पन्नोयं शब्द:। सम्यक् म्नायते अभ्यस्यते इति आम्नाय:। अभ्यासस्य सम्यक्त्वं नाम गुरुमुखात् श्रवणं नियमपूर्वकपठनं च। 

आ) त्रयी– शतपथब्राह्मणे उक्तम्–त्रयी वै विद्या ऋचो यजूंषि सामानि। विद्याशब्देन अत्र वेदा: गृह्यन्ते। एतेषु अथर्ववेदस्य समावेश: अत्र न कृत: इति भाति। तथापि वेदमन्त्रा: त्रिविधा: एव सन्ति। ऋच्यते स्तूयते देवता अनया सा ऋक्। ऋग्भि: देवतानां स्तुति: क्रियते। अनियताक्षरावसानो यजु:। गद्यात्मको यजु:। यजु: गद्यमन्त्र: भवति तथा च काव्ये इव तस्मिन् अक्षरसंख्या नियता न विद्यते। गीयमानमन्त्र: साम। एतेषां त्रिविधमन्त्राणां व्याख्या पूर्वमीमांसायाम् एवमस्ति–

तेषामृग्यत्रार्थवशेन पादव्यवस्था। गीतिषु सामाख्या। शेषे यजु:शब्द:।

एते त्रिप्रकारका: मन्त्रा: चतुर्षु वेदेषु अन्तर्भूता: अत: एतदनुसारं वेदानां त्रयी इति अभिधानम्। षड्गुरुशिष्येणापि तथैवोक्तम्–

विनियोक्तव्यरूपश्च त्रिविध: सम्प्रचक्षते।
ऋग्यजु:सामरूपेण मन्त्र: वेदचतुष्टये।।

अपरं स्पष्टीकरणं नाम ज्ञानकर्मोपासना: एते त्रय: विषया: चतुर्षु वेदेषु वर्णिता: अत: वेदानां त्रयी इत्यभिधानम् इत्यपि एका ऊहा।

इ) निगमा:-- निगम्यते ज्ञायते अनेनेति निगम:। वेदेन चतुर्विधपुरुषाणां प्राप्त्यर्थम् आवश्यकसाधनानि, कर्माणि च ज्ञायन्ते।

ई) आगमा:-- आगच्छन्ति बुद्धिमारोहन्ति अभ्युदयनि:श्रेयसोपाया: यस्मात् स: आगम: इति वाचस्पतिमिश्र:।


उ) स्वाध्याय:--सुष्ठु आवृत्य अध्याय: स्वाध्याय: अभ्यसनम्। ‘स्वाध्यायोध्येतव्य:’ ‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’ इत्यादीनि वेदवाक्यानि। उक्तं च गीतायाम् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते। 

ऊ) छन्द:-- छन्द:शब्द: छदि संवरणे इत्यस्माद्धातो: इति सायण:। छन्दांसि छादनात्। छादनम् आवरणम् निबन्धनं रक्षणं वा। वेदमन्त्रा: गायत्र्यादिभि: छन्दोभि: आवृता: निबद्धा वा सन्तीत्यत: वेदस्य कृते छन्द:शब्दस्य प्रयोग: क्रियते। छन्द:शब्दस्य प्रयोग: प्रामुख्येन मन्त्रविषयक: एव न तु ब्राह्मणविषयक:।

छान्दोग्यब्राह्मणे उक्तम्– देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशंस्ते छन्दोभिश्छादयन् यदेभिश्छादयंस्तच्छन्दसां छन्दत्वम्।  देवा: मृत्यो: अबिभयु:। अत: स्वसंरक्षणाय ते वेदान् प्रविश्य आत्मानं छन्दोभि: नाम वेदमन्त्रै: आवृण्वन् । एतदेव छन्दसां छन्दत्वम् आच्छादकत्वम्।

ए) ब्रह्म–बृंहति वर्धते निरतिशयमहत्त्ववान् भवति। अभ्युदयनि:श्रेयसार्थं वेदानां महत्त्वं निरतिशयम्।

ऐ) श्रुति:-- गुरुपरम्परया श्रवणेन शिष्यै: वेदज्ञानं प्राप्यते अत: वेदानां श्रुति: इति संज्ञा। मनु: वदति–श्रुतिस्तु वेदो विज्ञेयो।