# सामवेदसंहिता–
सा चामश्चेति तत्साम्न: सामत्वम्। (बृह.उप.) अस्यां व्याख्यायां सा इति ऋच: पर्याय:। अमशब्द: गायनार्थ:। अत: ऋचां गायनं सामशब्देन निर्दिश्यते। अत: गीतिषु सामाख्या इति जैमिनि:। उद्गातृनामक: ऋत्विक् यज्ञे एतासां ऋचां गायनं करोति इत्यत: सामवेद: उद्गातृवेद: इत्यपि कथ्यते।
सामवेदे आहत्य १८७५ मन्त्रा: सन्ति। तेषु १७७१ मन्त्रा: ऋग्वेदात् एव स्वीकृता:। एतेष्वपि २६७ मन्त्रा: द्विरुक्ता: सन्ति। सामवेदे केवलं १०४ मन्त्रा: नूतना: सन्ति। तेष्वपि ५ द्विरुक्ता:। अत: सामवेदस्य स्वकीयमन्त्राणां संख्या केवलं ९९ भवति। शतपथानुसारं सामवेदस्य अक्षरसङ्ख्या १,४४,००० इति।
एते मन्त्रा: भागद्वये विभक्ता: – पूर्वार्चिकम् तथा उत्तरार्चिकम्। अर्चिकं नाम ऋचां समूह:। पूर्वार्चिके ४ काण्डानि तथा ६ अध्याया: तथा ६५० मन्त्रा: सन्ति। उत्तरार्चिके ९ प्रपाठका:, २१ अध्याया: तथा १२२५ मन्त्रा: सन्ति।
ऋच: गायनानुकूला: भवेयु: एतदर्थं ऋक्षु कानिचन परिवर्तनानि क्रियन्ते। एतानि परिवर्तनानि विकारा: इति नाम्ना ज्ञायन्ते। एतादृशा: अष्ट विकारा: सन्ति।
सामवेदमन्त्राणां गायनविषयकं संज्ञाकरणं चतुर्विधम्।
√ ग्रामगानम् –सर्वेषां पुरत: ग्रामे क्रियमाणं गायनम्। एतस्य नियमा: सरला:।
√ अरण्यगानम् /रहस्यगानम्–अरण्यसदृशे निर्जनस्थले चिन्तनसहितं गानम्। एतस्य नियमा: कठिना: सङ्कीर्णा: च।
√ उहगानम् – अत्र सामवेदपरम्पराम् अनुसृत्य गायक: स्वेच्छया गायनप्रक्रियायां किञ्चित् परिवर्तनं कर्तुं शक्नोति।
√ ऊह्यगानम् – एता: उहगानार्थम् उपयुज्यमाना: विशिष्टा: ऋच: यत्र स्वचिह्नानि न्यूनमात्रया एव सन्ति। अत: एतासां गायनं कथं करणीयं तद्गायकेन ऊह्यं भवति। अथवा कदाचित् सम्पूर्ण: सामवेद: एव एतेन शब्देन निर्दिश्यते। सामवेदस्य गभीर: आशय: ज्ञातुं न सुलभ:। अत: स: श्रवणमननादिभि: ऊह्य: भवति।
सामवेदे एतेषां अन्यपारिभाषिकशब्दानाम् उपयोग: भवति।
१) शस्त्रम्– अप्रगीतमन्त्रसाध्या स्तुति: शस्त्रम्। गायनम् अकृत्वा मन्त्रै: कृता देवतास्तुति:।
२) स्तोत्रम्– प्रगीतमन्त्रसाध्या स्तुति: स्तोत्रम्।
३) स्तोम– आवृत्तियुक्तं यत्साम स्तोम इत्यभिधीयते। एकदैवतपरकाणां तिसृणां ऋचां समूह: तृच: इति कथ्यते। तृचस्य आवृतियुक्तं गानं स्तोमसंज्ञकम्।
४) विष्टुति: –त्रिवृत्स्तोमस्य मन्त्राणां क्रमपरिवर्तनप्रकार: विष्टुति: इति कथ्यते।
भारतीयसङ्गीतस्य मूलं सामवेद: अस्तीति विद्वांस: मन्यन्ते। ऋग्वेदे ये उदात्तस्वरितानुदात्ता: स्वरा: ते सामवेदे क्रमश: १,२,३ सङ्ख्याभि: दर्श्यन्ते। एतेषामेव भेदात् सङ्गीतस्य सप्तस्वराणामुत्पत्ति: भवति।
उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ।
स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमा:।।
बहूनां मन्त्राणां गायने पञ्चानामेव स्वराणां प्रयोग: भवति। क्वचिदेव षट् वा सप्त स्वरै: सामगायनं भवति।
सामवेदस्य एकसहस्रं शाखा: आसन्। सम्प्रति केवलं कौथुमी, राणायनीया, जैमिनीया एतत् शाखात्रयम् उपलब्धम्।
# अथर्ववेदसंहिता–
अथर्ववेद: चतुर्षु वेदेषु अर्वाचीनतम: इति पाश्चात्त्या:। तथापि भगवता व्यासेन एकस्यैव वेदस्य चतुर्धा विभाजनं कृत्वा एकैक: भाग: स्वशिष्येभ्य: दत्त: इति श्रूयते। अत: अथर्ववेद: अर्वाचीन: इति मतं भारतीयै: नाङ्गीक्रियते।
अस्मिन् वेदे २० काण्डानि, ३६ प्रपाठका:, ७३० सूक्तानि तथा च ५९८७ मन्त्रा: सन्ति। काण्डानां विभाजनं विषयानुसारम् अथवा द्रष्टु: ऋषे: अनुसारं न कृतम् अपि तु सूक्तानां मन्त्रसङ्ख्यानुसारं कृतम्। प्रथमत: सप्तमकाण्डपर्यन्तं लघुसूक्तानि सन्ति। उदाहरणार्थं प्रथमे काण्डे चतुर्मन्त्रात्मकानि सूक्तानि, द्वितीये पञ्चमन्त्रात्मकानि एवं रचना दृश्यते। अष्टमत: द्वादशपर्यन्तं विभिन्नविषयाणां दीर्घसूक्तानां सङ्ग्रह:। पुन: त्रयोदशत: विंशतितमकाण्डपर्यन्तं दीर्घसूक्तानि तथापि विषयस्य एकरूपता दृश्यते।
# अथर्ववेदस्य नामानि–
१) अथर्ववेद:--निरुक्तमते अथर्वशब्द: गत्यर्थकात् थर्व्-धातो: उत्पन्न:। थर्वतिश्चरतिकर्मा, तत्प्रतिषेध:। अथर्वाणोऽथर्वणवन्त:। अर्थात् यस्मिन् वेदे चित्तवृत्तिनिरोधात् मनस: स्थिरीकरणस्य उपदेश: दत्त: अस्ति स: अथर्ववेद:।
पाणिनीयधातुपाठे थुर्वी (थूर्व्) इति हिंसार्थ: धातु:। तस्यैव थर्व् इति रूपान्तरं भूत्वा तस्मात् अथर्वशब्द: उत्पन्न: इति केचन। सर्वविधाया: ऐहिक-आमुष्मिक-हिंसाया: निराकरणं अस्मात् वेदात् भवति इत्यत: एतस्य अथर्ववेद: इति नाम।
अथर्ववेदस्य ५९८७ मन्त्रेषु २७९९ मन्त्राणां तथा२२० सूक्तानां द्रष्टा अथर्वा ऋषि: आस्ति अनेनापि कारणेन एष: अथर्ववेद:।
२) अथर्वाङ्गिरस: – एष: सामासिकशब्द: महाभारते मनुयाज्ञवल्क्यौशनसस्मृतिषु स्वयं चाथर्ववेदेपि दृग्गोचरो भवति। अङ्गिरा: नामक: अन्य: ऋषिरपि एतस्य वेदस्य द्रष्टा अत: अथर्वाङ्गिरस: इति संयुक्तं नाम। अथर्वाङ्गिरसो: विषये गोपथब्राह्मणे एषा कथा–
ब्रह्मा सृष्टिनिर्माणार्थं तपोऽतपत्। एकदा जले ब्रह्मण: वीर्यस्य स्खलनम् अभवत्। तस्मात् भृगु: उत्पन्न:। स्वस्य पितु: दर्शनार्थं व्याकुलाय भृगवे आकाशवाण्या कथितम्, “ हे अथर्वन् तिरोभूतस्य स्वपितु: ब्रह्मण: अन्वेषणम् अस्मिन्नेव जले कुरु।” तदाप्रभृति एतस्य भृगो: नाम अथर्वा इति जातम्। पुनश्च तस्मिन्नेव जलेन आवृतस्य वरुणशब्दवाच्यब्रह्मण: अङ्गेभ्य: रसा: प्रास्रवन्। तेभ्य: उद्भूत: ऋषि: अङ्गिरा: (अङ्गिरस्) नाम्ना प्रसिद्धिं गत:। ब्रह्मणा तौ उभावपि तप:करणार्थम् आदिष्टौ। तयो: तप:प्रभावात् विंशतिसङ्ख्या: अथर्वण: अङ्गिरस: च ऋषय: उत्पन्ना:। तेषां माध्यमेन ब्रह्मा येषां मन्त्राणां दर्शनं कृतवान् तेषां संहिता अथर्वाङ्गिरस: इति नाम्ना प्रसिद्धा अभवत्। अथर्वा इति भृगोरेव अपरं नाम। अत: एष: वेद: भृग्वङ्गिरस: इति नाम्नापि ज्ञायते।
केषाञ्चन विदुषां मते अथर्वा शान्तिकपौष्टिककर्मणां मन्त्राणां द्रष्टा तथा च अङ्गिरा: अभिचारमन्त्राणाम्। अत: एतत् संयुक्तं नाम। तथापि नैष: तर्क: युक्तियुक्त: यत: यद्यपि अभिचारमन्त्रा: अथर्ववेदे सन्ति तथापि तेषां सङ्ख्या न्यूना। अथर्ववेदे अधिकप्रमाणेन मन्त्रा: आध्यात्मिकविषयसम्बद्धा: सन्ति।
३) ब्रह्मवेद: – एतस्य नाम्न: पृष्ठत: कारणत्रयम्–अ) यज्ञे अनिष्टनिवारणं, प्रायश्चित्तविधिद्वारा त्रुटिनिवारणं, यज्ञानुष्ठानस्य क्रमे अन्येभ्य: ऋत्विग्भ्य: अनुज्ञादानं एतानि ब्रह्मानामकस्य ऋत्विज: कार्याणि। यज्ञस्य नियन्त्रणकर्ता स: प्रमुख: पुरोहित:। स: एतस्य वेदस्य ऋत्विक्। अत: एतस्य ब्रह्मवेद: इति नाम भवति।
आ) सृष्टे: मूलकारणस्य ब्रह्मण: विषये दार्शनिकचिन्तनस्य प्राधान्यात् एष: ब्रह्मवेद: इति कथित:। अस्मिन् विभिन्नस्थलेषु विराट्, ब्रह्म, स्कम्भब्रह्म, उच्छिष्टब्रह्म, ब्रह्मौदन:,ईश्वर: जीवात्मा, प्राण: इत्यादीनां विवेचनं प्राप्यते।
इ) अस्य वेदस्य ८८४ मन्त्रा: ब्रह्मा-नामकेन ऋषिणा दृष्टा: अत: ब्रह्म-ऋषिण: महत्सङ्ख्यया मन्त्राणां द्रष्टृत्वात् ब्रह्मवेद: इति नाम अस्ति।
४) क्षत्रवेद: – अथर्ववेदे राजकर्मसम्बद्धानि बहूनि सूक्तानि उपलभ्यन्ते। राजशासनं क्षत्रियाणां कर्म। अत: क्षत्रकर्मप्रतिपादनात् एष: क्षत्रवेद: इत्यपि उच्यते।
५) भिषग्वेद: – विभिन्ना: शरीरव्याधय: तथा च तेषां निवारणार्थम् औषधीनाम् उल्लेखात् एष: भिषग्वेद: इति संज्ञाम् आवहति।
# अथर्ववेदस्य विषया: –
१) ब्रह्मविषयका: दार्शनिकसिद्धान्ता: – उपनिषदां ब्रह्मविद्याया: यत् विकसितं रूपं प्राप्यते तस्य मूलम् अथर्ववेद: एव अस्ति। अध्यात्मविषया: दार्शनिकसिद्धान्ता: प्रचुरमात्रया अत्र उपलभ्यन्ते। उदाहरणार्थं विश्वस्य उत्पत्तिविषये उक्तम् यत् सृष्टे: प्रारम्भे ईश्वरेण जले स्वबीजम् निवेशितम्। तत: हिरण्यगर्भस्य उत्पत्ति: अभवत् ततश्च सृष्ट्यारम्भ: जात:।
२) भैषज्यकर्म – विभिन्ना: रोगा: तन्निवारणार्थं भैषज्यसूक्तानि अत्र सन्ति। सूक्तै: देवतानाम् आवाहनं रोगनिवारणाय प्रार्थना च क्रियते। विविधानां रोगाणां नामानि तेषां निराकरणार्थम् ओषधीनामपि नामानि एतेषु सूक्तेषु प्राप्यन्ते। जलचिकित्सा, सूर्यकिरणचिकित्सा, मानसिकचिकित्सा एतेषां विषये विस्तृतं वर्णनं अस्मिन्वेदे अस्ति।
३) शान्तिकर्माणि पुष्टिकर्माणि च – आपद्भ्य: मुक्त्यर्थं यानि कर्माणि क्रियन्ते तानि शान्तिकर्माणि इति उच्यन्ते। दु:स्वप्ननाश:, अपशकुननिवारणम् इत्यादीनां कृते विविधसूक्तानां जप: अत्र उपदिष्ट:। ऐश्वर्यप्राप्त्यर्थं क्रियमाणानि कर्माणि पुष्टिकर्माणि। एतेषां कर्मणां विवेचनम् अथर्ववेदे अस्ति।
४) राजकर्म – राजा कीदृश: भवेत्, राज्ञ: तथा प्रजाया: कर्तव्यानि, शासनप्रकारा:, राजनिर्वाचनम्, राज्याभिषेक:, राज्ञ: अधिकारा: कर्तव्यानि च, दण्डविधानम्, सेना तथा सेनापति:, सैनिकानां प्रकारा: तेषां कार्याणि, युद्धम्, विजयार्थं साधनानि इत्यादीनां राजधर्मसम्बद्धानां विषयाणां विवेचनम् अथर्ववेदे अस्ति।
५) सांमनस्यम् – समाजे तथा राष्ट्रे सामाजिकं कौटुम्बिकं धार्मिकं राजकीयं सामञ्जस्यं भवतु इत्यर्थं स्मरणीयानि बहूनि सूक्तानि अथर्ववेदे सन्ति।
६) प्रायश्चित्तकर्माणि – अज्ञानेन बुद्ध्या वा कृतानाम् अशुभकर्मणां त्रुटिपूर्णानां वा यदनिष्टं फलं तस्य नाशार्थं क्षमाप्रार्थना, देवप्रार्थना, प्रायश्चित्तहोम: इत्यादिविषयकाणि सूक्तानि अत्र सन्ति।
७) आयुष्यकर्म – दीर्घायुरारोग्यस्य प्राप्त्यर्थं विभिन्नदेवतानां स्तुति: अनेकै: सूक्तै: कृता अस्ति।
८) अभिचारकर्म – जारणम्, मारणम्, उच्चाटनम्, वशीकरणम् इत्याद्यभिचारकर्मणां मन्त्रा: अस्मिन्वेदे सन्ति।
एतेन ज्ञायते यत् धर्मार्थकाममोक्षरूपाणां चतुर्विधानां पुरुषार्थानां प्राप्त्यर्थम् एष: वेद: अत्यन्तम् उपयोगी अस्ति। अलौकिकदार्शनिकविषया: तथा च लौकिकव्यवहारसम्बद्धा: विषया: अस्मिन्वेदे प्राप्यन्ते। राजनीति:, नीतिशास्त्रम्, आचारशिक्षा, कर्तव्योपदेश: इत्यादिभि: व्यावहारिकविषयै: एष: वेद: अधिकं लोकोपयोगी जात: अस्ति। धर्मसंस्कृतिदृष्ट्या एतस्य महत्त्वम् ऋग्वेदादपि अतिरिच्य तिष्ठति।
अथर्ववेदस्य नवसु शाखासु पैप्पलादा शौनकी चेति शाखाद्वयं प्रसिद्धम्। एतयो: केवलं शौनकी अद्यत्वे उपलभ्यते।