भारतीयज्ञानपरम्परा--७

 # उत्तरवैदिकवाङ्मयम्--

अ) ब्राह्मणग्रन्था:--

संहितोत्तरकाले तत्रत्यमन्त्राणां व्याख्यानार्थं यज्ञविधिषु तेषां विनियोगस्य स्पष्टीकरणार्थं ब्राह्मणग्रन्था: रचिता: अभवन्। ब्राह्मणेषु आरण्यकोपनिषदामपि समावेश: भवति। एतत् वाङ्मयम् उत्तरवैदिकवाङ्मयम् इति निर्दिश्यते।

ब्रह्मशब्दात् अण् इति तद्धितप्रत्यये कृते ब्राह्मणशब्द: सिध्यति। ब्रह्मशब्दस्य कतिपये अर्था: भवन्ति। शतपथब्राह्मणे उक्तम्– ब्रह्म वै मन्त्र: । तत्रैव ब्रह्म यज्ञ: इत्यपि उक्ति:। मन्त्राणाम् अर्थविषयकं तेषां यज्ञविधौ उपयोगस्य विवेचनमिति ब्राह्मणग्रन्थानां मुख्यं प्रतिपाद्यम्।

# ब्राह्मणग्रन्थानां स्वरूपम्–

ब्राह्मणानि मुख्यत: गद्यग्रन्था: वर्तन्ते। संस्कृतगद्यस्य प्राचीनतमं रूपं ब्राह्मणेषु दृग्गोचरं भवति।

ब्राह्मणग्रन्थवाक्यानि द्विविधानि–विधि: अर्थवादश्चअज्ञातार्थज्ञापको वेदभागो विधि:। प्राशस्त्यनिन्दात्मकं वाक्यम् अर्थवाद:। एतयो: प्रतिपादनं यज्ञसिद्ध्यर्थं कृतम् अस्ति यत: यज्ञो वै श्रेष्ठतमं कर्म इति वैदिकानां श्रद्धा। 

एतेषां ग्रन्थानां विषयप्रतिपादकानि कानिचन प्रसिद्धवचनानि एवम्–

ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां व्याख्याग्रन्थ:। इति भट्टभास्कर:।

ब्राह्मणे के विषया: निरूपिता: एतद्विषये वाचस्पतिमिश्र: वदति–

नैरुक्त्यं यत्र मन्त्राणां विनियोगश्च प्रयोजनम्।
प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते।।

१) मन्त्राणां नैरुक्त्यम्– नाम-आख्यात-उपसर्ग-निपातरूपा: चत्वार: शब्दा:। तद्विविषयकं ऊहनं कृत्वा मन्त्रगतशब्दानां अर्थस्य निर्वचनं नैरुक्त्यम् इति उच्यते।

२) विनियोग:-- यज्ञविधौ मन्त्रस्य विनियोग: केन कदा कथं च कर्तव्य: इत्यादिविषय: अत्र निरूप्यते।

३) प्रतिष्ठानम्– विविधकथाख्यानादिभि: विधे: प्रशंसा निषिद्धकर्मण: निन्दा च अर्थवाद: इति कथ्यते। तेन विधिनिषेधानां महत्त्वं बुद्धौ सम्यक् स्थापितं भवति। एष: अर्थवाद: एव प्रतिष्ठानशब्देन उच्यते।

४) विधि:-- यज्ञकर्मणां पौर्वापर्यक्रमेण कथनं विधि:।   

शबरस्वामिना तु ब्राह्मणग्रन्थस्य दश प्रयोजनानि उक्तानि–

हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधि:।
परक्रिया पुराकल्पो व्यवधारणकल्पना।
उपमानं च दशैते विधयो ब्राह्मणस्य तु।। 

१) हेतु:-- कर्मकाण्डसम्बधिन: विशिष्टविधे: पृष्ठत: विद्यमानस्य हेतो: कारणस्य वा निर्देश: अयम्। यथा तेन ह्यन्नं क्रियते। (शत.ब्रा) सूपेनैव होम: करणीय: यत: तेनैव सूपेन अन्नं सिद्धं भवति।

२) निर्वचनम्– शब्दस्य व्युत्पत्तिद्वारा यागे प्रयुज्यमानस्य पदार्थस्य योग्यत्वख्यापनम्। यथा-तद्दध्नो दधित्वम्। 

३) निन्दा – अप्रशस्तवस्तुन: निन्दनं कृत्वा यागार्थं तस्य अनुपादेयताया: कथनम्। अमेध्या वै माषा:। (माषा: यागार्थम् अनुपादेया: भवन्ति।)

४) प्रशंसा – यज्ञदेवतादीनां प्रशंसापराणि वाक्यानि यै: तेषाम् उपादेयत्वं बुध्यते। यथा–वायुर्वै क्षेपिष्ठा देवता। 

५) संशय:-- यज्ञविधिविषयको सन्देह: यथा– यज्ञविषये यजमानस्य सन्देह: उत्पद्यते यत् अहं होमं कुर्याम् अथवा न? तदव्यचिकित्सज्जुहुवानी इमा हौषादूम्।

६) विधि:--उदुम्बरवृक्षस्य शाखाया: अध: उपविश्य उद्गातृमण्डलं सामगानं करोति। सा शाखा कियत्प्रमाणा भवेत् इत्यस्यां पृच्छायां सा यजमानेन समपरिमाणा भवेदिति प्राप्यते। यजमानेन सम्मिता औदुम्बरी भवति।

७) परक्रिया–परस्य कृते यत्कार्यं क्रियते तद्विषयकवाक्यम्। यथा–माषानेव मह्यं पचति।

८) पुराकल्प:-- प्राचीनानि आख्यानानि अर्थवादरूपाणि। यथा–पुरा ब्राह्मणा अभैषु:। (ते भीतिम् अनुभूतवन्त:)

९) व्यवधारणकल्पना –कर्मविषयक: विशेषप्रकारक: तात्कालिको निश्चय:। यथा– यावतोश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान् निर्वपेत्। यज्ञस्य कृते यावत: अश्वा: गृहीता: तावत्सङ्ख्याकै: वरुणदैवत्यै: चतुष्कपालै: यागं कुर्यात्। 

१०) उपमानम् – उपमानस्य साह्येन विषयस्य स्पष्टीकरणम्। यथा छान्दोग्योपनिषदि उक्तम्– हे सोम्य, यथा सूत्रेण बद्ध: पक्षी अत्र तत्र उड्डयनं कृत्वा कुत्रापि आश्रयम् अलब्ध्वा पुन: तं बन्धनरज्जुमेव उपाश्रयते तथैव मन: सर्वासु दिक्षु भ्रमणं कृत्वा कुत्रापि विश्रामस्थास्य अलाभात् प्राणमेव उपाश्रयते। एवं मन: प्राणेन निबद्धम् अस्ति।

# ब्राह्मणानां वेदस्वरूपत्वम्–

ब्राह्मणग्रन्था: वेदस्वरूपा: अथवा नेति विद्वत्सु विवाद:। गोपथब्राह्मणे उक्तम्–एवमिमे सर्वे वेदा: निर्मिता: सकल्पा: सरहस्या: सब्राह्मणा: ….। अत्र रहस्यशब्देन उपनिषद: सूच्यन्ते। वेदात् ब्राह्मणकल्पोपनिषद: पृथगुल्लेखात् न ब्राह्मणानि वेदरूपाणीति आर्यसमाजिन:। 

शङ्कराचार्य: पतञ्जलि: सायण: इत्यादय: मन्त्रब्राह्मणयो: वेदनामध्येयम् इत्येव मन्यन्ते। तथापि सायणेन तैत्तिरीयसंहिताभाष्ये उक्तम्– यद्यपि मन्त्रब्राह्मणात्मको वेद: तथापि ब्राह्मणस्य मन्त्रव्याख्यानरूपात् मन्त्रा एवादौ समाम्नाता:।

एतेन निश्चयो भवति यत् ब्राह्मणानि केवलम् आदौ सङ्कलितानां वेदमन्त्राणां व्याख्यानमात्रम्। अत: तन्न अपौरुषेयशास्त्रम् अपि तु पौरुषेयं स्मृतिसमकक्षं च। आपस्तम्बश्रौतसूत्रादिषु यद्यपि मन्त्रब्राह्मणयो: उभयोरपि वेदत्वमुक्तं तथापि तत्रापि ब्राह्मणानां वेदत्वं लाक्षणिकम्। श्रौतादीनि सूत्राण्यपि स्मृतिसमानग्रन्था एव।  

वेदा: उदात्तादिवैदिकस्वरै: निबद्धा: तथापि ब्राह्मणेषु उपलभ्यमान: स्वर: न वैदिक: अपि तु लौकिक: एव। तदुक्तं शबरस्वामिना– भाषास्वरो ब्राह्मणे प्रवृत्त:। एतेनापि दृश्यते यत् ब्राह्मणानि वेदात् भिन्नानि।