# ऋग्वेदस्य ब्राह्मणे--
१) ऐतरेयब्राह्मणम् —
स्कन्दपुराणानुसारं भक्ते: महाचार्यस्य हारितर्षे: वंशे माण्डूकि: नाम प्रसिद्ध: आचार्य: अभवत्। तस्य पत्न्या: नाम इतरा इति आसीत्। पुत्रप्राप्त्यर्थं माण्डूकि: घोरं तप: अन्वतिष्ठत्। तस्य पुत्रप्राप्ति: जाता। इतराया: एष: पुत्र: ऐतरेय: इति नाम्ना प्रसिद्धिं गत:।
बाल्यादेव एष: केवलं वासुदेव, वासुदेव इत्येवं भगवन्नाम गायति स्म। स: वेदाध्ययनं न कृतवान्। तेन स: रुष्टस्य पितु: तिरस्कारस्य भाजनम् अभवत्। तथापि अनन्तरं विष्णो: प्रसादात् स: ऐतरेयब्राह्मणस्य रचनां कृतवान्।
सायणाचार्येण एषा कथा एवं दत्ता अस्ति– ऐतरेयस्य पिता यज्ञसभायां वेदाध्ययनाय ग्लायत: ऐतरेयस्य अवमानं कृतवान्। तदसहमाना इतरा स्वस्य कुलदेवताया: मह्या: आवाहनं कृतवती। तदा महीदेवता प्रकटिता अभवत्। सा सभायाम् ऐतरेयं सिंहासने उपवेश्य तस्मै ऐतरेयब्राह्मणस्य द्रष्टृत्वं वररूपेण दत्तवती। अत: एष: ऐतरेय: ‘महीदास:’ इति नाम्नापि प्रसिद्धिं गत:।
ऐतरेयब्राह्मणं ऋग्वेदस्य शाकलशाखया सम्बद्धं ब्राह्मणम् अस्ति। तस्मिन् अष्ट पञ्चिका: सन्ति। प्रत्येकं पञ्चिकायां अष्टौ अध्याया: एवं समेत्य ४० अध्याया: तथा २८५ कण्डिका: सन्ति।
एतस्य ग्रन्थस्य मुख्य: विषय: सोमयाग: इति। सोमयागस्य प्रकृतियाग: अग्निष्टोम: तथा च उक्थ्य:,षोडशी,क्रतु: अतिरात्र: एते अग्निष्टोमस्य विकृतियागा: एतेषां सर्वेषां वर्णनं अत्र प्राप्यते। राजसूययज्ञ: ऐन्द्रमहाभिषेक: पुरोहितस्य महत्त्वम् इत्यादय: महत्त्वपूर्णविषया: विभिन्नासु पञ्चिकासु चर्चिता:। सप्तमपञ्चिकाया: तृतीये अध्याये प्रसिद्धं शुन:शेपाख्यानं (हरिश्रन्द्रोपाख्यानं) वर्तते।
हरिश्चन्द्र: पुत्रकाम: नारदं पर्वतनामकं ऋषिं च पुत्रप्राप्त्यर्थम् उपायं पृष्टवान्। तदा नारद: वरुणस्य आराधनं कुरु इति तम् आदिशत्। हरिश्चन्द्र: वरुणस्य आराधनं कृतवान् वरुणाय च स्वपुत्रस्य प्रत्यर्पणं प्रतिज्ञातवान्।
वरुणकृपया प्राप्तस्य पुत्रस्य रोहित: इति नामकरणं तेन कृतम्। तथापि पुत्रमोहात् तस्य वरुणाय प्रत्यर्पणं तेन यथाशक्ति विलम्बितम्। तथापि अन्ते रोहित: यदा युवा अभवत् तदा स: यज्ञे वरुणार्थं तस्य बलिदानाय सिद्ध: अभवत्। एतं वृत्तान्तं श्रुत्वा रोहित: पलायनं कृत्वा वनप्रदेशम् आश्रितवान्। तदा वरुणदेवस्य शक्त्या बद्ध: हरिश्चन्द्र: जलोदररोगपीडित: अभवत्।
रोहितेन वने अजीगर्तनामकाय ऋषये शतं गा: दत्त्वा तस्य शुन:शेपनामक: पुत्र: बलिदानार्थं क्रीत:। तं पुत्रं स: हरिश्चन्द्रस्य यज्ञम् आनयत्। हरिश्चन्द्रस्य पुरोहिता: विश्वामित्र: वसिष्ठ: जमदग्निश्च शुन:शेपस्य विशसनाय न सिद्धा: अभवन्। तदा स्वयं पिता अजीगर्त: एव तस्य विशसनार्थम् अग्रे आगत:। एतावता विश्वामित्रस्य उपदेशेन शुन:शेपेन स्तुत: वरुण: तं बन्धमुक्तम् अकरोत्। हरिश्चन्द्रस्य जलोदररोग: अपि नष्ट:। पितु: लोभं दृष्ट्वा शुन:शेप: पितु: त्यागम् अकरोत्। तदा विश्वामित्रेण स: पुत्ररूपेण स्वीकृत:। तदाप्रभृति शुन:शेपस्य नाम देवरात: इति अभवत्।
रोहित: यदा वने आसीत् तदा इन्द्र: तम् गतिशीलजीवनस्य उपदेशं कृतवान् आसीत्। चरैवेति चरैवेति इति स: प्रसिद्ध: उपदेश:।
शेते निपद्यमानस्य चराति चरतो भग:।।
चरैवेति चरैवेति।।
य: कार्यहीन: आसीनो भवति तस्य भाग्यमपि निषीदते। य: ऊर्ध्व: तिष्ठति तेन सह तस्य भाग्यमपि तिष्ठति। य: निरुद्योग: केवलं शयनेन कालयापनं करोति तस्य भाग्यमपि शेते। तथापि य: सन्ततं गतिशील: चरति तस्य भाग्यमपि वृद्धिं गच्छति अत: भवान् सर्वदा सञ्चरतु, गतीशीलो भवतु।
सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन्।।
चरैवेति चरैवेति।
सञ्चरणशील: मधु प्राप्नोति सञ्चरणशील: एव स्वादिष्टफलं विन्दते। सूर्यं पश्यतु स: कदापि सञ्चरणकाले तन्द्राम् आलस्यं वा न धारयति। अत: तस्य आदर्शम् अनुसृत्य भवानपि सर्वदा सञ्चारं करोतु।
ऐतरेयब्राह्मणे ३३ देवानाम् उल्लेख: प्राप्यते। अग्निर्वै देवानामवमो विष्णुश्चरम:। अग्नि: देवेषु प्रथम: तथा विष्णु: सर्वश्रेष्ठ: इति ऐतरेयस्य मतम्।
एतस्य ब्राह्मणस्य लेखनशैली प्रतीकात्मिका, रूपकबहुला च वर्तते। ऐन्द्रमहाभिषेकप्रसङ्गे वर्णितं आसन्द्या: रूपकम् अत्यन्तं हृदयावर्जकं रमणीयम् अस्ति।
२) शाङ्खायन/कौषीतकिब्राह्मणम्– शाङ्खायनब्राह्मणम् ऋग्वेदस्य बाष्कलशाखया सम्बद्धम्। ऐतरेयब्राह्मणात् एतत् अधिकं प्राचीनं मन्यते। ऐतरेयब्राह्मणेन एतस्य विषया: समाना: तथापि ऐतरेये यथा सुव्यवस्थितं विषयविवेचनं प्राप्यते तथा शाङ्खायने न लभ्यते। शाङ्खायनम् आधारभूतं मत्वैव ऐतरेयस्य रचना कृता अस्ति इति विद्वन्मतम्।
शाङ्खायन: ऋषि: एतस्य ब्राह्मणस्य कर्ता। तस्य नाम्न: एव ब्राह्मणस्य शाङ्खायनम् इति नाम आगतम्। शङ्खायनस्य ऋषि: कौषीतकि: गुरु: आसीत्। उद्दालक: आरुणि:, कहोल: कौषीतकि: , गुणाख्य: शाङ्खायन: एवं गुरुशिष्यपरम्परा। गुरुं प्रति अत्यादरात् शाङ्खायनेन स्वस्य रचनाया: नाम कौषीतकि: इति कृतम्।
अस्मिन् ब्राह्मणे ३० अध्याया: तथा २२७ खण्डा: सन्ति। ऐतरेण सह विषयसाधर्म्ये सत्यपि अत्र पशुयागानां विशेषवर्णनं प्राप्यते।
# यजुर्वेदस्य ब्राह्मणे--
१) शतपथब्राह्मणम् – यजुर्वेदस्य शुक्लसंहितासम्बद्धमेतत् ब्राह्मणं सर्वेषु वेदब्राह्मणेषु बृहत्तममं महत्त्वपूर्णं च वर्तते यत: एष: यागानुष्ठानप्रतिपादक: सर्वोत्तम: ग्रन्थ: अस्ति। एतस्य कर्ता याज्ञवल्क्य: ऋषि:।
याज्ञवल्क्यस्य पितु: नाम वाजसनि: इति आसीत्। सायणमतानुसारं वाज: नाम अन्नं सनि: नाम दाता। याज्ञवलवक्यस्य पिता अन्नदानार्थं प्रसिद्ध: आसीत् इत्यत: तस्य नाम वाजसनि: अभवत्। भागवतानुसारं देवरात: ब्रह्मरात: वा याज्ञवल्क्यपिता। वाजसनि: तथा देवरात: एकस्यैव व्यक्ते: नामनी भवितुम् अर्हत:। स्कन्दपुराणानुसारं याज्ञवल्क्यस्य मातु: नाम सुनन्दा आसीत्।
वाजसने: पुत्र: याज्ञवल्क्य: वाजसनेय: इत्यपि नाम बिभर्ति स्म। तस्य द्वे पत्न्यौ आस्ताम्–मैत्रेयी तथा कात्यायनी। तस्य पुत्रस्य नाम कात्यायन: अथवा पारस्कर: इति आसीत्। एष: पारस्कर: शुक्लयजुर्वेदस्य पारस्करगृह्यसूत्राणां कर्ता।
याज्ञवल्क्यस्य मातुल: वैशम्पायन:। तस्मादेव याज्ञवल्क्य: वेदज्ञानं प्राप्तवान्। तथापि मातुलेन सह मतभेदात् तेन सा वेदविद्या त्यक्ता तथा च पुन: सूर्योपासनं कृत्वा सूर्यात् वेदज्ञानम् अधिगतम्। स: एव शुक्लयजुर्वेद:।
शतं पन्थान: मार्गा: नाम अध्याया: यस्य तत् शतपथम् एवं शतपथशब्दस्य व्युत्पत्ति: प्रदर्श्यते। शुक्लयजुर्वेदस्य माध्यन्दिनी तथा काण्वा एतयो: उभयो: शाखयो: शतपथब्राह्मणम् अस्ति। काण्वशतपथे यद्यपि अध्यायसङ्ख्या १०४ नाम शतात् अधिका तथापि छत्रिन्यायेन एषा संज्ञा अन्वर्था भवति। उभयत्र प्रतिपाद्यविषया: समाना: तथापि प्रतिपादनस्य क्रम: भिन्न: वर्तते।
माध्यन्दिनशतपथे १४ काण्डानि १०० अध्याया: ४३८ ब्राह्मणानि तथा च ७६२४ कण्डिका: सन्ति। दर्शपूर्णमासयाग:, चातुर्मास्ययाग:, सोमयाग:, वाजपेययाग:, राजसूय:,इत्यादय: बहव: यागा: यज्ञसम्बद्धविषया: चर्चिता: सन्ति। एतस्य ब्राह्मणस्य चतुर्दशे खण्डे प्रसिद्धं बृहदारण्यकोपनिषद् वर्तते।
काण्वशतपथे १७ काण्डानि १०४ अध्याया: ४३५ ब्राह्मणानि तथा ६८०६ कण्डिका: सन्ति। एतस्य सप्तदशे काण्डे बृहदारण्यकोपनिषद् वर्तते।
शतपथे पुरुरवा-उर्वशी, इन्द्र-वृत्र-युद्ध, मनु-श्रद्धा, जलप्लावनम् इत्यादीनि महत्त्वपूर्णानि आख्यानानि सन्ति येषाम् उपबृंहणं पुराणेतिहासेषु कृतम् अस्ति।
२) तैत्तिरीयब्राह्मणम्–कृष्णयजुर्वेदस्य तैत्तिरीयशाखासम्बद्धम् एतत् ब्राह्मणम् अस्ति। एतत् कृष्णयजुर्वेदस्य एकमेव पूर्णरूपेण उपलब्धं ब्राह्मणम्। एतस्य काठकशाखाया: काठकब्राह्मणस्मपि उपलभ्यते तथापि केवलम् अंशरूपेणैव। तैत्तिरीयब्राह्मणस्य कर्ता तित्तिरिनामक: ऋषि: वैशम्पायनस्य शिष्य: आसीत्। एतस्य ब्राह्मणस्य अन्तर्गतस्य काठकभागस्य प्रवक्ता काठकनामा ऋषि: अस्तीति भट्टभास्करस्य मतम्। शतपथब्राह्मणम् इव एतत् ब्राह्मणं स्वरसहितम् उपलब्धम् अस्ति इति तस्य प्राचीनताया: प्रमाणम्। तैत्तिरीयब्राह्मणस्य प्रचार: मुख्यत: दक्षिणभारते विद्यते।
एतस्मिन्ब्राह्मणे त्रीणि काण्डानि अथवा अष्टकानि विद्यन्ते। तेषु क्रमश: ८,८ तथा १२ अध्याया: अथवा प्रपाठका: सन्ति। अनन्तरविभागस्य नाम अनुवाक् इति।
अन्यब्राह्मणेषु यद्यपि सोमयागस्यैव प्रधानतया विवेचनम् अस्ति, तथापि अत्र तु इष्टियज्ञा: पशुयज्ञा: अपि विस्तरेण वर्णिता:।
विष्णो: वराहवतार:, यम-नचिकेतकथा, भरद्वाजसम्बन्धि आख्यानम् एतानि तैत्तिरीयब्राह्मणस्य प्रमुखाख्यानानि।
यत: कृष्णयजुर्वेदे मन्त्रा: तथा तस्य विनियोगवाक्यानि (ब्राह्मणम्) एतयो: मिश्रणम् अस्ति तथैव अस्मिन्ब्राह्मणेपि। अत: एतत् ब्राह्मणं तैत्तिरीयसंहिताया: परिशिष्टमेव अस्ति इति विद्धांस: वदन्ति।
सायणाचार्यस्य स्वस्य शाखा तैत्तिरीया एव आसीत्। अत: स: सर्वप्रथमम् एतस्या शाखाया: एव ग्रन्थानां व्याख्यानानि लिखितवान् अनन्तरम् अन्येषां वेदब्राह्मणानाम्।