# सामवेदस्य ब्राह्मणानि–
१) पञ्चविंशब्राह्मणम् – एतत् सामवेदस्य कौथुमशाखया सम्बद्धं ब्राह्मणम् अस्ति। एतस्य आचार्य: तण्डि: इति नामधारक:। सामविधानब्राह्मणे उक्तं यत् तण्डि: तथा शाट्यायन: उभौ अपि बादरायणव्यासस्य शिष्यौ आस्ताम्। तण्ड्याचार्यस्य नामत: एतस्य ताण्ड्यब्राह्मणम् इति नाम आगतम्।
एतत् सामवेदस्य ब्राह्मणेषु सर्वाधिकं विशालं ब्राह्मणम् अत: महाब्राह्मणम् इति अपि एतस्य आख्या। विषयप्रतिपादनशैल्या: प्रौढगभीरत्वात् एतत् प्रौढब्राह्मणम् इत्यपि उच्यते। एतस्मिन् पञ्च पञ्चिकासु समेत्य २५ अध्याया: सन्ति।
रचनादृष्ट्या एतत् अत्यन्तं सुव्यवस्थितं ब्राह्मणं वर्तते। एतस्य शब्दचयनं वाक्यविन्यास: अत्यन्तं परिष्कृत: अस्ति। अनावश्यक: विषयविस्तर: अथवा अर्थस्य दुर्बोधताया: जनयित्री सङ्क्षिप्तता अपि अत्र न विद्यते।
एतस्य ग्रन्थस्य मुख्यप्रतिपाद्यं सोमयाग:। ज्योतिष्टोमादारभ्य सहस्रवर्षात्मकस्यापि यागस्य वर्णनम् अस्मिन् ब्राह्मणे अस्ति। आहत्य १७८ सोमयागा: अत्र वर्णिता:।
सामगानप्रक्रियायाम् ऊहगानम् तथा ऊह्यगानम् एतयो: विषये विशदं विवेचनम् अस्मिन् ब्राह्मणे कृतम् अस्ति। आहत्य १८० आख्यायिका: अस्मिन् ग्रन्थे प्राप्यन्ते। व्रात्ययज्ञ: कश्चन एकदिनात्मक: विशिष्ट: यज्ञ: आसीत्। तदानींतनकाले वैदिककर्माणि प्रति आस्थारहितानां संस्कारहीनानां कश्चन वर्ग: समाजे आसीत् ये व्रात्या: इति निर्दिश्यन्ते स्म। तेषां शुद्धिकरणार्थं तथा च तेषां वैदिकधर्मं प्रति आनयनार्थम् एष: यज्ञ: क्रियते स्म।
ताण्ड्यब्राह्मणं प्राय: कुरुपञ्चालजनपदौ तथा खाण्डववनं नैमिषारण्यप्रदेश: सरस्वती दृषद्वत्यो: नद्यो: गङ्गियमुनयोश्च अन्तर्वेदी इत्यस्मिन् प्रदेशेन सम्बद्धम् अस्ति। सरस्वत्या: अन्तर्धानस्य स्थानम् ‘विनशनम्’ इति नाम्ना तथा च पुन: तस्या: उद्भवस्य स्थानं ‘प्लक्ष-प्रस्रवणम्’ इति नाम्ना ताण्ड्ये उल्लिखितम्। तत्कालिकभौगोलिकपरिवेशविषये प्रचुरा सामग्री अस्मिन् ग्रन्थे उपलभ्यते।
यज्ञस्य आत्यन्तिकं महत्त्वम् अत्र वर्णितम्। ये यज्ञान् न कुर्वन्ति ते निकृष्टा: वध्याश्च इति ब्राह्मणकारस्य मतम्।
२) षड्विंशब्राह्मणम् – एतदपि सामवेदस्य कौथुमशाखासम्बद्धं ब्राह्मणम्। एतस्मिन् षट् अध्याया: सन्ति । तथापि ते सर्वे मिलित्वा एक: एव अध्याय: पूर्वम् एक: एव अध्याय: आसीत् इति मतम्। अपरं च एतत् ब्राह्मणं ताण्ड्यब्राह्मणस्य परिशिष्टम् अस्ति इति विद्वांस: मन्यन्ते अत: एनं ताण्ड्यैकशेषब्राह्मणम् इति सायणाचार्य: वदति।
एतस्य षष्ठे अध्याये प्रायश्चित्तशकुनादीनाम् अद्भुतकर्मणां वर्णनम् अस्ति इत्यत: एष: अध्याय: अद्भुतब्राह्मणम् इति नाम्ना प्रसिद्ध: अस्ति।
एतस्य आद्येषु पञ्चस्वध्यायेषु यज्ञवर्णनम् अस्ति। षष्ठे भूकम्प:, गृहभङ्ग:, पशुव्याधय:, क्षुधानाश:, अतिवृष्टि: अनावृष्टि: कुस्वप्न: अशुभसूचकादीनां निवारणार्थं यागा: वर्णिता: सन्ति।
भू: भुव: स्व: एतासां महाव्याहृतीनां परिचय: अत्र प्राप्यते। ‘तस्माद्ब्राह्मणोहोरात्रस्य संयोगे सन्ध्यामुपास्ते।’ एवं दिनस्य द्विवारं सन्ध्यासमय: अस्तीति निर्देश: कृत: अस्ति। अस्मिन्ब्राह्मणे आहत्य २४ आख्यानानि सन्ति। तेषु इन्द्र-अहल्या आख्यानं पुराणेषु बहु प्रसिद्धतां गतम्।
७) सामविधानब्राह्मणम्–सामविधानब्राह्मणे त्रय: प्रपाठका: तेषु पञ्चविंशति: अनुवाका: वर्तन्ते। ताण्ड्यषड्विंशब्राह्मणयो: श्रौतयागा: मुख्यविषय:। तथापि अस्मिन्ब्राह्मणे अभिचारकर्मणाम् ऐन्द्रजालिकविषयाणां वा प्राबल्यं लक्ष्यते। असामाजिककर्मणां सामाजिकम् अध्ययनम् अत्र दृग्गोचरीभवति।
जप: तप: स्वाध्याय: एतेषां महत्त्वं श्रौतयागै: समानमेव वर्णितम् अस्ति। येषां सम्पादनाय अन्यत्र बहुधनस्य व्यय: तथा च दीर्घकालिकयागा: अपेक्ष्यन्ते तेषां लौकिककामनानां प्राप्त्यर्थम् केवलं सामगायनमेव पर्याप्तम् अस्तीति अस्य ब्राह्मणस्य मतम्। जप: स्वाध्यायश्च यज्ञौ एव मत्वा तयो: यत् विकसितं रूपम् आरण्यकोपनिषत्सु दर्शितम् अस्ति तस्य मूलं सामविधानब्राह्मणमेव।
श्रौत-तान्त्रिकविधीनां समन्वय: अत्र दृश्यते। शत्रुनाशाय शत्रो: शिरश्च्छेद: मूर्तिदाह: वा एतयो: विधानं कृतम् अस्ति। काम्ययागानां प्रयोग: प्रायश्चित्तकर्माणि अत्र विशेषतया निरूपितानि। पापप्रायश्चित्तकर्मणां विशेषनिरूपणात् एतत् ब्राह्मणं धर्मसूत्राणां पूर्वपीठिका अस्ति।
३) आर्षेयब्राह्मणम् –एतत् सामवेदसम्बद्वं चतुर्थं ब्राह्मणम्। आर्षेयब्राह्मणे ३ प्रपाठका: तथा च तेषु ८२ खण्डा: सन्ति। अन्यानि ब्राह्मणानि कर्मकाण्डसम्बद्धानि तथापि एतत् ब्राह्मणं सामवेदस्य अनुक्रमणी एव। साम्नां विविधानि नामान्तराणि तथा तेषां द्रष्टार: ऋषय: एतेषां सम्बधस्य कथनम् अत्र मुख्यविषय: अत: एतस्य आर्षेयब्राह्मणम् इति अभिधानम्। साम्नाम् ऋषय: तेषां गोत्राणि एतेषां विशदवर्णनात् एतत् ब्राह्मणम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णम्। एतस्य रचना सूत्रशैल्या कृता अस्ति।
साम्नां ऋषिगोत्रादीनां ज्ञानं यशसे स्वर्गाय च भवतीति अत्र उक्तम्–ऋषीणां नामधेयगोत्रोपधारणं स्वर्ग्यं यशस्यं धन्यं पुण्यं पूर्त्यं प्रशस्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम्।
सामगायनप्रकारेषु ग्रामगेयम् अरण्यगेयं च इत्येतयो: द्वयोरेव विवेचनम् अत्र अस्ति। ऊहगानम् ऊह्यगानं एतयो: विचार: न कृत:।
सामगानस्य पञ्च विभक्तय: अत्र निर्दिष्टा: –प्रस्ताव: उद्गीथ: प्रतिहार: उपद्रव: निधनं च।
१) प्रस्ताव: – सामगानस्य प्रारम्भिक: प्रस्तावनात्मक: भाग:। एतस्य प्रारम्भे हुँ इति अक्षरम् उच्चार्यते। एतस्य गायनं होतृनामक: पुरोहित: करोति।
२) उद्गीथ:--एष: सामगानस्य मध्यवर्ती भाग:। उद्गाता एतस्य गायनं करोति। तस्य प्रारम्भ: ओम् इत्येतेन अक्षरेण भवति।
३) प्रतिहार:--एतस्य गायनं प्रतिहर्ता करोति।
४) उपद्रव:-- एतस्य गायनं पुन: उद्गाता एव करोति।
५) निधनम् – एष: सामगानस्य अन्तिमभाग:। एतस्य गायनं होता, उद्गाता, प्रतिहर्ता एते त्रय: अपि कुर्वन्ति।
सामगीतानां नामकरणस्य पञ्च आधारा: सन्ति। तदनुसारं तेषां पञ्चधा विभाजनं कर्तुं शक्यम्।
• येन ऋषिणां नाम्नाम् आधारेण यथा–सैन्धुक्षितम् औशनम्।
• ऋच: प्रारम्भिकपदाधारेण – विशोविशीयम्,यज्ञायज्ञीयम्।
• निधनाधारेण (सामगानस्य अन्त्यभागस्य आधारेण)--सुतं रयिष्ठीयम्, दावसुनिधनम्।
• प्रयोजनमूलकं यथा–संवर्गम्, रक्षोघ्नम्।
• एतेषु चतुर्षु यानि गानानि न समाविष्टानि यथा– वीङ्कम्।
४) देवताध्यायब्राह्मणम्– अत्यन्तं लघुकायमिदं ब्राह्मणं सूत्रशैल्या निबद्धम् अस्ति। एतस्मिन् चत्वार: खण्डा: विद्यन्ते।
प्रथमखण्डे साम्नां विविधदेवतानां विषये विवेचनम् अस्ति। इन्द्र:, अग्नि:, त्वष्टा, पूषा, वरुण: प्रजापति:, सोम: इत्यादीनां स्वरूपविषये स्पष्टीकरणानि प्राप्यन्ते। द्वितीयखण्डे छन्दसां देवता: का: एद्विषयकं निरूपणं भवति। तृतीयखण्डे छन्दोनाम्नां गायत्र्यनुष्टुबादीनां व्युत्पत्तय: प्रदर्शिता: सन्ति। उदाहरणार्थं “गायत्रं गायते: स्तुतिकर्मण:” अर्थात् गायत्रम् गायत्री वा एतत् छन्दोनाम गानार्थकात् गैधातो: निष्पन्नम् अस्ति। एतानि अर्थनिर्वचनानि यास्काचार्येण निरुक्तग्रन्थे स्वीकृतानि सन्ति। चतुर्थखण्डे गायत्रसाम्न: विविधदेवतानां वर्णनम् अस्ति। एष: पृथक् खण्ड: भवति अथवा न एतस्मिन्विषये विदुषां मतभिन्नता। एतस्य ब्राह्मणस्य निर्वचनखण्ड: भाषाशास्त्रीयदृष्ट्या बहु महत्त्वपूर्ण:।
५) उपनिषद्ब्राह्मणम् – सामवेदस्य कौथुमशाखासम्बद्धम् इदं ब्राह्मणम्। ब्राह्मणग्रन्थस्य तथा उपनिषद्ग्रन्थस्य एकत्र समावेशात् एतन्नाम आगतम् अस्ति। एतस्य दश प्रपाठका: सन्ति तथा च तेषु चत्वारिंशत् खण्डा: विद्यन्ते।
प्रथमप्रपाठकद्वयं मन्त्रब्राह्मणम् अथवा मन्त्रपर्व इति नाम्ना प्रसिद्धम्। तस्मिन् गृह्यसंस्कारेषु प्रयुक्ता: २६८ मन्त्रा: सन्ति। प्रथमप्रपाठके गर्भाधानं सीमन्तोन्नयनं चूडाकर्म उपनयनं समावर्तनं विवाह: एतेषां संस्काराणां मन्त्रा: उल्लिखिता:। द्वितीयप्रपाठके भूतबलि:,पितृपिण्डदानं, देवबलिहोम: आदित्योपस्थानं नवगृहप्रवेश: इत्यादिविषयका: मन्त्रा: सन्ति। अन्यब्राह्मणेभ्य: संहिताभ्यश्च एते मन्त्रा: स्वीकृता:। गोभिलगृह्यसूत्रं तथा खादिरगृह्यसूत्रम् एते गृह्यसूत्रे मन्त्रब्राह्मणे आधारिते स्त:।
अन्ये अष्ट प्रपाठका: छान्दोग्योपनिषद् इति नाम्ना ज्ञायन्ते। शङ्कराचार्य: एतदुपनिषद् ताण्ड्यब्राह्मणेन सम्बद्धं मन्यते अत: तण्डिनामुपनिषद् एवं तस्योल्लेखं करोति। एतस्य प्रथमाध्याये ओङ्कारस्य महिमा तथा तस्योपासनाविषये वर्णनम् अस्ति। द्वितीये विविधसाम्नाम् उपासना विद्यते। तृतीये सूर्योपासना, गायत्रीमाहात्म्यं ब्रह्मयज्ञ: प्राण: मन: च एते विषया: सन्ति।
छान्दोग्ये दाल्भ्य-प्रवाहणसंवाद:, सत्यकाम-जाबाल-आख्यानम्, जानश्रुति-रैक्व-आख्यानम्, उद्दालक-श्वेतकेतु-संवाद:, सनत्कुमार-नारद-संवाद: इत्यादीनि बहूनि आख्यानानि वर्तन्ते।
६) संहितोपनिषद्ब्राह्मणम् – ब्राह्मणेस्मिन् एक: एव प्रपाठक: तथा तस्मिन् पञ्च खण्डा: सन्ति। एतस्य ब्राह्मणस्य नामनि य: संहिताशब्द: स: न सामवेदस्य मन्त्राणां सङ्ग्रहस्य द्योतक: अपि तु सामगानानां सङ्ग्रह:। साम्नो सप्तस्वरा: भवन्ति। क्रुष्ट-प्रथम-द्वितीय-चतुर्थ-मन्द्रातिस्वार्या इति। तथा मन्द्रमध्यमताराणीति त्रीणि वाच: स्थानानि भवन्ति। एतेषां य: सन्निकर्ष: सा संहिता इति सायण:। सप्तस्वरादीनां प्रतिपादनात् शास्त्रीयसङ्गीतदृष्ट्या एतत् ब्राह्मणम् अत्यन्तं महत्त्वपूर्णम्।
संहिता बहुप्रकारै: विभज्यते– संहितोपनिषद्ब्राह्मणेन सामगानसंहिता त्रिधा विभक्ता–देवहूसंहिता, वाक्शबहूसंहिता तथा अमित्रहू संहिता। एतत् मन्द्रादिस्वराणाम् आधारेण कृतं वर्गीकरणम्। पुन: संहिताया: विभाजनं शुद्धा दु:स्पृष्टा निर्भुजा एवमपि कृतम् अस्ति। देवदृष्ट्या अपि कृतं वर्गीकरणं प्राप्यते।
द्विजराजभट्टस्य मतानुसारं संहिता आर्चिकसंहिता तथा गानसंहिता एवं द्विप्रकारा। प्रथमखण्डद्वये एतयो: क्रमश: विवेचनं विद्यते।
सामगायनस्य विविधानि फलान्यपि अत्र निर्दिष्टानि। देवहूसंहिताया: गायनं मन्द्रस्वरेण भवति। तेन देवतानां शीघ्रम् आगमनं भवति। देवहूसंहिताया: गायक: उद्गाता समृद्धि: पशव: पुत्रा: इत्यादीनां प्रापक: भवति। वाक्शबहूसंहिताया: गायक: यदि अस्पष्टोच्चारणं करोति तर्हि उद्गातुरेव हानि: भवति।
द्वितीये तथा तृतीये खण्डे सामगानपद्धते: विस्तृतं निरूपणम् अस्ति। सामगातॄणां कृते एतद्विवेचनम् अतीव महत्त्वपूर्णम्। तृतीयखण्डे विद्यादानस्य अधिकारिण: अपि वर्णनम् अस्ति। विद्या ह वै ब्राह्मणम् आजगाम गोपाय मां शेवधिष्टेस्मि। असूयकायनृजवेयताय न मा ब्रूया: वीर्यवती यथा स्याम्। एतत् प्रकृतविषये एतस्म ब्राह्मणस्य प्रसिद्धं वचनं निरुक्ते उक्तं मनुनापि सन्दर्भितम्।
चतुर्थे पञ्चमे च खण्डे एतस्य एव विषयस्य उपबृंहणम् अस्ति। चतुर्थे खण्डे विविधगुरुदक्षिणानां विषयेपि विवेचितम्।
एतस्य ब्राह्मणस्य द्विजराजभट्टभाष्यं तथा सायणस्य वेदार्थप्रकाश: एवं भाष्यद्वयं प्राप्यते। तत्रापि सायणभाष्यं प्रथमखण्डस्यैव केवलम् उपलब्धम्। द्विजराजस्य पूर्णस्य ग्रन्थस्य भाष्यं प्राप्यते। बहुषु स्थलेषु तत् सायणभाष्यात् अधिकम् उपयोगि अस्ति।
७) वंशब्राह्मणम् – एतत् अत्यन्तन लघुकायं ब्राह्मणं केवलं खण्डत्रयात्मकम्। सामगानप्रवर्तकानाम् ऋषीणां परम्परा एतेन ब्राह्मणेन ज्ञायते।
ग्रन्थारम्भे ब्रह्मदेव:, ब्राह्मणा:,आचार्या:, ऋषय: देवेषु वायु: मृत्यु: विष्णु: वैश्रवण: एते नमस्कृता:। सायणमतेन एते सर्वे परात्परगुरव: सन्ति।
सामवेदस्य गानपरम्परा साक्षात् ब्रह्मदेवात् आरभते। स्वयम्भू: ब्रह्मण: कश्यपं यावत् पुनश्च तत: शर्वदत्त-गार्ग्यपर्यन्तम् एषा परम्परा। ब्रह्मा, प्रजापति:, मृत्यु:, वायु:,इन्द्र:,अग्नि:, कश्यप: एवमेषा सामवेदगानस्य परम्परा।
सामवेदस्य जैमिनिशाखास्बद्धानि त्रीणि ब्राह्मणानि प्राप्यन्ते– जैमिनीयब्राह्मणम् , जैमिनीयार्षेयब्राह्मणम् तथा च जैमिनीयोपनिषद्ब्राह्मणम् /तलवकारब्राह्मणम्।
८) जैमिनीयब्राह्मणम् – सामवेदस्य प्रवर्तक: जैमिनि: अत: तेन प्रणीतमिदं ब्राह्मणं सामवेदस्य प्राचीनतमं ब्राह्मणम् अस्ति। एतत् शतपथब्राह्मणवत् दीर्घकायं ब्राह्मणम्।
अस्मिन् ब्राह्मणे काण्डत्रयं वर्तते। प्रथमे काण्डे ३६४ खण्डा: द्वितीये ४४२ खण्डा: तथा च तृतीये ३८६ खण्डा: सन्ति। समेत्य खण्डसङ्ख्या ११९२ अस्ति।
जैमिनीयब्राह्मणस्य आरम्भे तथा अन्ते जैमिने: स्तुति: वर्तते। जैमिनीयं तथा ताण्ड्यमहाब्राह्मणम् इत्यनयो: विषयदृष्ट्या अत्यधिकसमानता अस्ति। सोमयागगतं औद्गात्रतन्त्रं, गवामयनसत्रं, एकाहयाग:, द्वादशाहयाग: इत्यादीनां यागानां वर्णना उभयत्रापि प्राप्यते। तथापि ताण्ड्यब्राह्मणे ये विषया: सङ्क्षेपेण निरूपिता: ते एव जैमिनीयब्राह्मणे विस्तृतं विवेचिता: सन्ति।
प्रथमे काण्डे अग्निहोत्रस्य काम्यं नित्यं चेति भेदद्वयं वर्णितम्। द्वितीये एकाहयाग: गवामयनयाग: सरमा-पणि-संवाद: इत्यादय: विषया: सन्ति। तृतीयकाण्डे द्वादशाहयाग: निरूपित:। अथर्वण: पुत्रस्य दधीचे: कथा अस्मिन्काण्डे उपलभ्यते। मन्दम् उच्यताम् , भूम्या: अपि कर्णा: सन्ति इति प्रसिद्धा लोकोक्ति: एतस्मात् ब्राह्मणात्। जैमिनिशाखीयब्राह्मणेषु ऋग्वेदे इव ळ इति व्यञ्जनं प्राप्यते एतदेव एतेषां ब्राह्मणानां प्राचीनताया: परिचायकम्।
९) जैमिनीयार्षेयब्राह्मणम् – यथा कौथुमशाखीय ताण्ड्यमहाब्राह्मणं तथा जैमिनीयब्राह्मणम् अनयो: विषयदृष्ट्या विद्यते तथैव कौथुमशाखीयम् आर्षेयब्राह्मणं तथा जैमिनीयार्षेयब्राह्मणं विषयदृष्ट्या समानम्। स्वाध्याय: यज्ञश्च एतयो: कृते साम्नाम् ऋषि: छन्द: देवता च एतेषां ज्ञानम् अत्यावश्यकम् एवं प्रतिपादनं अत्रापि प्राप्यते। सामगानस्य प्रवर्तकर्षीणां वर्णनं कृतम्। ग्रामगेयेषु गानेषु अध्याया: खण्डा: विन्यासा: आर्षेयब्राह्मणेन समाना:।
१०) जैमिनीयोपनिषद्ब्राह्मणम्– एतस्य ब्राह्मणस्य अपरं नाम तलवकारब्राह्मणम् इति। तवल्कार: एतस्मिन्ब्राह्मणे चत्वार अध्याया: सन्ति। तेषां विभाजनं पुन: अनुवाकेषु खण्डेषु च कृतम् अस्ति। पुरातनी भाषा, ऐतिहासिकानि तथा देवशास्त्रीय आख्यानानि एतै: एतस्य ब्राह्मणस्य महत्त्वं वर्धितम् अस्ति। येषाम् अन्यत्र उल्लेख: न प्राप्यते तादृशा: परम्परा: अत्र उल्लिखिता:। उदाहरणार्थं अतिमानवीयशक्ते: प्राप्त्यर्थं निशीथकाले करणीयाया: श्मशानसाधनाया: उल्लेख:।
ब्राह्मणेस्मिन् ओङ्कार: हिङ्कार: च एतयो: महत्ता बहुधा वर्णिता अस्ति। ओङ्कारादेव गायत्र्या: उत्पत्ति: अभवत् तथा च गायत्र्या: कारणात् प्रजापति: ऋषय: देवाश्च अमृतत्वं प्राप्तवन्त: इति उक्तम्। तदेतदमृतं गायत्रम्। एतेन वै प्रजापतिरमृतमगच्छत्। एतेन देवा: एतेन ऋषय:।
एष: खण्ड: गायत्र्युपनिषद् इति नाम्ना प्रसिद्ध:। एतस्मादनन्तरं केनोपनिषद: अथवा तलवकारोपनिषद: आरम्भ: भवति।