भारतीयज्ञानपरम्परा--१०

# अथर्ववेदस्य ब्राह्मणम्--

१) गोपथब्राह्मणम्– वेङ्कटमाधवस्य ऋग्वेदानुक्रमण्यां ‘पैप्पलादम् आथर्वणम्’ एवमित्यस्य ब्राह्मणस्य उल्लेखात् एतत् अथर्ववेदस्य पैप्पलादशाखया सम्बद्धं ब्राह्मणम् इति स्पष्टम्। एतस्य प्रवचनकर्ता गोपथर्षि:। 

एतस्य ब्राह्मणस्य नामकरणविषये चत्वारि मतानि प्रचलितानि सन्ति–

१) गोपथर्षि: एतस्य ब्राह्मणस्य रचयिता अत: तस्य नाम्ना एतत् ख्यातम् अभवत्। यथा ऐतरेयब्राह्मणं शाङ्खायनब्राह्मणम् इत्येतानि नामान्यपि रचयितु: नाम्न: आगतानि सन्ति। 

२) गोपथशब्दस्य व्युत्पत्ति: गुप् धातुत: अपि उक्ता। गुप् धातु: तथा अथ इति अव्ययं एतयो: संयोगेन गोपथशब्द: सिध्यति। अथर्ववेदस्य द्रष्टारौ अथर्वा अङ्गिरा: च तथा तयो: शिष्यपरम्परा यज्ञस्य गोप्तार: सन्ति। अथर्वाङ्गिरसो हि गोप्तार:। इति गोपथोक्ति:।

३) यथा शतपथस्य नाम तस्य शतस्य अध्यायानां कारणात् आगतं तथैव गोपथस्य नाम तस्य ११ प्रपाठकानां कारणात् आगतम् अस्ति। गोशब्दस्य अर्थ: इन्द्रियम्। इन्द्रियाणां सङ्ख्या पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्च एवमाहत्य ११ भवति। तावत्सङ्ख्या: अध्याया: अस्मिन्ब्राह्मणे अत: तस्य नाम गोपथब्राहृमणम्।

४) सरमापणिसंवाद: ऋग्वेदे। इन्द्रस्य आदेशानुसारं सरमा असुरै: अपहृतानां गवाम् अन्वेषणं करोति। अस्मिन्कार्ये अङ्गिरस: इन्द्रस्य साह्यं कृतवन्त: यत: ते गवां पन्थान: जानन्ति स्म। 

ब्राह्मणस्यैतस्य पूर्वगोपथम् उत्तरगोपथं चेत्येतत् भागद्वयम्। पूर्वगोपथे पञ्च प्रपाठका: तथा उत्तरगोपथे षट् प्रपाठका: सन्ति। एवमाहत्य ११ प्रपाठकेषु २५८ कण्डिका: विद्यन्ते। ब्राह्मणसाहित्ये इदं सर्वाधिकम् अर्वाचीनं ब्राह्मणम्।

पूर्वगोपथे प्रथमप्रपाठके सृष्ट्युत्पत्ति: तथा ओङ्कार: गायत्री च एतयो: महिमानं वर्णितम् अस्ति। अन्ते आचमनस्य विधे: वर्णनम् अस्ति। द्वितीये ब्रह्मचारिण: कर्तव्याणि, ऋत्विजां क्रियाकलापा:, यज्ञविवेचनम् एते विषया: सन्ति। तृतीये पुन: यज्ञविवेचनं, ब्रह्मण: (यज्ञहोतु:) महत्त्वं,दर्शपूर्णमास:, अग्निष्टोम:, अग्निहोत्रम्, इत्यादीनां गूढव्याख्या वर्तते। चतुर्थे गवामयनादीनां सत्रयागानां मीमांसा अस्ति। पञ्चमे संवत्सरसत्रं ,अश्वमेध: ,पुरुषमेध:, अग्निष्टोम: एतद्विषयकं विवेचनम् अस्ति। 

उत्तरगोपथस्य प्रथमप्रपाठके यज्ञहोतु: ब्रह्मण: आसनम्, दर्शपूर्णमासयाग:,काम्येष्टय: ,चातुर्मास्ययाग: एतेषां वर्णनम् अस्ति। द्वितीये सोमयाग: प्रायश्चित्तयाग: एतद्विषयकं विवेचनम् अस्ति। तृतीये वषट्कार: अनुवषट्कार: एकाहप्रात:सवनम् माध्यन्दिनसवनम् एतेषां विवेचनम् अस्ति। चतुर्थे सायंसवनं षोडशीयाग: पञ्चमे तथा षष्ठे अतिरात्र:, सौत्रामणी, वाजपेय:, अहीन: इत्यादियागानां वर्णना अस्ति।

गोपथे एते उल्लेखा: विशेषावधेया: सन्ति–

१) अग्निर्यज्ञं त्रिवृतं सप्ततन्तुम्। इति आथर्वणश्रुत्यनुसारं गोपथब्राह्मणकार: यागानां २१ प्रभेदा: सन्तीति प्रतिपादयति। सप्तसुत्या: सप्त च पाकयज्ञा: हविर्यज्ञा: सप्त तथैकविंशति:।

२) चतुर्षु होतृषु ब्रह्मा यज्ञगतान् अरिष्टान् शमयति। एवं ब्रह्मा भृग्वङ्गिरोभिर्व्याहृतिभिर्यज्ञस्य विरिष्टं शमयति। स एव यज्ञकार्यस्य सर्ववेत्ता अस्ति। एष ह वै विद्वान् सर्ववित् ब्रह्मा।

३) यज्ञस्य द्रव्यरूपस्य अपेक्षया यत् तस्य आध्यात्मिकरूपस्य विवरणं शतपथे प्रारब्धं तस्य चरमोत्कर्ष: गोपथे दृश्यते। 

४) आध्यात्मिकतत्त्वानां प्रचुरमात्रया निरूपणम् अस्मिन् ब्राह्मणे दृश्यते। ओङ्कार: गायत्री, मन:सयम: एतेषु विषयेषु अधिकम् अवधानं दत्तम् अस्ति। ओङ्कारस्य सहस्रसङ्ख्यया जपात् कामनापूर्ति: भवति, ऋक्सामयजुषाम् उच्चारणात् प्राक् प्रणवोच्चार: करणीय:,गायत्र्या: उपसक: अनन्तं पुण्यं श्री: कीर्तिं च प्राप्नोति इत्यादिविवेचनं गोपथे विस्तरेण कृतम्।

५) धर्मो हैनं गुप्तो गोपायति। धर्मस्य रक्षणात् स: धर्म: मनुष्यं रक्षति एष: गोपथस्य विचार: अनन्तरं ‘धर्मो रक्षति रक्षित:’ इत्यस्यां सूक्त्यां परिणत: अभवत्।

६) ऋग्वेदे वरुण: आकाशदेवता आसीत्। तथापि गोपथे स: जलेन सह सम्बद्ध: अभवत्।

७) परिनिष्ठितान् चतुर: वेदान् विहाय सर्पवेद:, पिशाचवेद:, असुरवेद:,इतिहासवेद:,पुराणवेद: एतेषां पञ्चानम् उल्लेख: वेदरूपेण प्राप्यते।

८) व्याकरणस्य नैका: संज्ञा: अत्र प्राप्यन्ते यथा–धातु: प्रातिपदिकम्, विभक्ति:,प्रत्यय:,विकार:,विकारी,स्थानानुप्रदानम् इत्यादय:। 

९) अस्मिन् ब्राह्मणे वसिष्ठविश्वामित्रादीनाम् आचार्याणां भौगोलिकनिवासस्थानानाम् उल्लेख: कृत: अस्ति। कुरव:, पाञ्चाला:,मगधा:,अङ्गा: इत्यादीनि जनपदनामान्यपि उल्लिखितानि।

एतादृशानां नैकासां विशेषतानां कारणात् गोपथं ब्राह्मणसाहित्ये अत्यन्तं महत्त्वपूर्णम् अस्ति।