# आरण्यकसाहित्यम्–
मन्त्रा: तथा ब्राह्मणानि इति उभयो वेद: उच्यते। तत्र ब्राह्मणग्रन्थस्य त्रय: भागा: ब्राह्मणम् आरण्यकम् उपनिषद् च। ब्राह्मणग्रन्थानां परिशिष्टरूपाणि आरण्यकानि। तदन्तर्गतश्च ब्रह्मज्ञानप्रतिपादक: आकरभाग: उपनिषद:। आरण्यकानि ब्राह्मणभाग: उपनिषदश्च अनयो: सम्बन्धं प्रस्थापयन्ती मध्यगता शृङ्खलैव अस्ति।
वेदस्य कर्मकाण्डपर: पूर्वभाग: लौकिकफलार्थं प्रवृत्त:। अत: ईश्वरस्य प्रकृते: विविधशक्तीनाम् आह्वानं कृत्वा ता: इज्यन्ते वेदोक्तमन्त्रै:। तत्र इन्द्र: अग्नि: वरुण: मरुत: नासत्यौ विश्वे देवा: इत्यादय: देवता: ईश्वरस्य प्रकृत्यन्तर्गता: स्तुता:। तेषु इन्द्राग्नी प्रधानौ।
अनन्तरं लौकिकफलानाम् अनित्यत्वमसारत्वं दृष्ट्वा निर्वेदं प्राप्ता: ऋषय: प्रकृते: आधारभूतस्य ईश्वरस्य चिन्तनम् आरब्धवन्त:। तदा एते एव देवा: सर्वोच्चेश्वरस्य विविधानि प्रकटीकरणानि इति मत्वा तेषां कृते क्रियमाणानां यज्ञादीनाम् आध्यात्मिकार्थस्य प्रतिपादनम् आरब्धम्। स: वेदानाम् आध्यात्मिकज्ञानपर: भाग: आरण्यकनाम्ना प्रसिद्धिं गत:। एतेषु प्रामुख्येन प्राणोपासना दृश्यते। तस्यैव परिनिष्ठितभाग: जीवेश्वरजगतां सम्बन्धप्रतिपादनपर: उपनिषद:। तत्र ब्रह्मविद्या/ईश्वरज्ञानम्/ अपरोक्षानुभूति: प्रधाना मुक्त्यर्थम्। ब्रह्मचर्यगृहस्थवानप्रस्थसन्न्यासा: चत्वार: आश्रमा:। वेदस्य संहिताब्राह्मणारण्यकोपनिषद: चत्वार: भागा: प्रत्येकम् आश्रमे यथाक्रमम् उपादेया: सन्तीति केषाञ्चन मतम्।
अरण्यशब्दात् तत्र भवम् इत्यर्थे ठक् प्रत्यये विहिते आरण्यकम् इति शब्दं प्राप्नुम:। अरण्ये भवम् आरण्यकम्।
अरण्याध्ययनादेतत् आरण्यकमितीर्यते। इति सायण:। अरण्यस्य एकान्तवातावरणे एतेषामध्ययनं क्रियते स्म अत: एतेषाम् आरण्यकम् इति नाम।
ब्राह्मणभागापेक्षया अत्र विषयविवेचनं भिन्नम्। ब्राह्मणानां विषय: यज्ञमीमांसा। आरण्यकेषु यज्ञस्य पृष्ठत: विद्यमानस्य आध्यात्मिकतत्त्वस्य यज्ञविधीनां दार्शनिकविचारस्य मीमांसा अस्ति। अपि च अस्मिन् भागे प्राणविद्या तस्याश्च प्रतीकानि एतेषां विचार: मुख्यत्वेन प्रस्तुत:। प्राणोग्नि: परमात्मा।
एतस्या: रहस्यभूताया: प्राणविद्याया: प्रतिपादनात् आरण्यकानां ‘रहस्यब्राह्मणम्’ इत्यपि नामधेयं भवति। निरुक्तटीकायां दुर्गाचार्येण ‘ऐतरेयके रहस्यब्राह्मणम्’ इति उक्त्वा ऐतरेयारण्यकात् कश्चनांश: उद्धृत: अस्ति एतेन रहस्यब्राह्मणशब्देन आरण्यकमेव उच्यते इति निश्चयो भवति। आरण्यकान्तर्गता: उपनिषद: अपि रहस्यशब्देन निर्दिश्यन्ते। तथापि आरण्यके प्राणविद्याया: तथा उपनिषत्सु ब्रह्मविद्याया: प्राधान्यम्।
आरण्यकानां महत्त्वात् महाभारते वेदेभ्य: सारमादाय एतेषां रचना कृतास्तीति उक्तम्–आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।
सम्प्रति आहत्य षट् आरण्यकानि प्राप्यन्ते। तानि एवम् –
१) ऋग्वेदसम्बन्धिनी– ऐतरेयारण्यकं शाङ्खायन/कौषीतकि-आरण्यकं च।
२) यजुर्वेदसम्बन्धीनि– शुक्लयजुर्वेदस्य बृहदारण्यकं कृष्णयजुर्वेदस्य तैत्तिरीयारण्यकं तथा मैत्रायणी-आरण्यकं च।
३) सामवेदस्य जैमिनीय/तवल्कार-आरण्यकं छान्दोग्यारण्यकं च।
तथापि बृहदारण्यकं छान्दोग्यारण्यकं च उपनिषदौ एव अत: एतयो: विचार: उपनिषद्रूपेणैव प्रस्तूयते। अथर्ववेदस्य आरण्यकं न प्राप्यते।
# ऋग्वेदस्य आरण्यके–
१) ऐतरेय-आरण्यकम्– एतस्य पञ्च भागा: वर्तन्ते। ते अपि आरण्यकनाम्ना एव उच्यन्ते। आद्यानां त्रयाणाम् आरण्यकानाम् आचार्य: ऐतरेयब्राह्मणस्य महीदास: ऐतरेय: एव। चतुर्थस्य आरण्यकस्य रचयिता आश्वलायन: तथा पञ्चमस्य शौनकर्षि: इति वदन्ति।
पञ्चसु प्रथमारण्यके महाव्रतस्य विवेचनं वर्तते। ऐतरेयब्राह्मणे उक्तस्य गवामयनस्य एव एष: अंश:। द्वितीयारण्यके आद्येषु त्रिषु खण्डेषु उक्थम्, निष्कैवल्यम्, प्राणविद्या, पुरुष: इत्यादीनां विवेचनम् अस्ति। एतस्य चतुर्थखण्डात् षष्ठखण्डपर्यन्तं त्रय: खण्डा: ऐतरेयोपनिषद् इति नाम्ना प्रसिद्धा:। तृतीयारण्यकस्य संहितोपनिषद् इति अन्यत् नाम अस्ति। एतस्मिन् संहितापाठ:, क्रमपाठ: , पदपाठ: तथा स्वरव्यञ्जनादीनां विवेचनं लभ्यते। चतुर्थारण्यं लघुतमम्। तत्र महाव्रतस्य पञ्चमदिने प्रयोज्यानां महानाम्नी-ऋचां विवेचनम् अस्ति। पञ्चमारण्यके प्राणविद्याया: विवरणम् अस्ति।
२) शाङ्खायनारण्यकम् – एतत् ऋग्वेदस्य शाङ्खायनशाखासम्बद्धम् आरण्यम्। एतस्यैव अपरं नाम कौषीतकि: आरण्यकम्। शाङ्खायनाचार्य: एतस्य आरण्यकस्य रचयिता। स: स्वस्य गुरो: कौषीतके: नाम एतस्मै ग्रन्थाय दत्तवान् इति कथ्यते।
आरण्यकेस्मिन् पञ्चदश अध्याया: १३७ खण्डाश्च सन्ति। प्रथमे तथा द्वितीये अध्याये महाव्रतस्य वर्णनम् अस्ति। पुनश्च द्वितीये तथा तृतीये क्रमश: मृत्यो: पश्चात् जीवस्य मार्ग: परब्रह्मण: स्वरूपं च वर्णितम्। चतुर्थे तथा पञ्चमे आत्मैक्यं तथा ब्रह्मतत्त्वस्य भिन्नभिन्नप्रकारका: व्याख्या: सन्ति। तृतीयाध्यायात् षष्ठाध्यायपर्यन्तं आरण्यकभाग: कौषीतक्युपनिपषद् इति नाम्ना प्रसिद्ध: अस्ति। सप्तमाष्टमौ अध्यायौ संहितोपनिषद् इति नाम्ना ख्यातौ। नवमाध्याये प्राणविद्या, दशमे अग्निहोत्रस्य आध्यात्मिकरूपम्, एकादशे मृत्यो: निवारणार्थं विशेषयागस्य विधानं, स्वप्नफलानि, अनिष्टनिवारणाय शान्तिकर्म, द्वादशे बिल्वफलात् मणिनिर्माणम्, त्रयोदशे ब्रह्मविषयकश्रवणमननार्थं शुद्धि: तपस्या श्रद्धा एतासां महत्त्वम्, चतुर्दशे “अह़ं ब्रह्मास्मि” इत्यस्य महावाक्यस्य विवरणम् इत्येते विषया: सन्ति।
चतुर्दशाध्याये केवलं मन्त्रद्वयम् अस्ति। तयो: ‘अहं ब्रह्मास्मि’ एतद्महावाक्यं विवृतम्।
पञ्चदशेध्याये आचार्याणां परम्परा दत्ता अस्ति। ब्रह्मण: आरभ्य कहोल: कौषीतकि: तथा अन्ते च शाङ्खायन: एवम् आचार्यपरम्परा उक्ता।
# आरण्यकस्यैतस्य वैशिष्ट्यानि–
√ अग्निहोत्रस्य भौतिकस्वरूपस्य अपेक्षया आध्यात्मिकं स्वरूपं विशदीकृतम्। बाह्यस्य अग्निहोत्रस्य अपेक्षया आभ्यन्तराग्निहोत्रं महत्त्वपूर्णम्। आभ्यन्तरमात्मतत्त्वम् अविदित्वा य: जुहोति स: भस्मनि एव जुहोति। सर्वा: देवता: शरीराभ्यन्तरे एव प्रतिष्ठिता:।आध्यात्मिकेन अग्निहोत्रेण तेषां सर्वेषां तृप्ति: जायते।
√ वेदान्तदर्शनस्य द्वे महावाक्ये तत्त्वमसि तथा अहं ब्रह्मास्मि उभेपि एतस्मिन्नारण्यके विद्येते। यदयमात्मा स एष तत्त्वमसि इत्यात्मावगम्योहं ब्रह्मास्मि।
√ अहं ब्रह्मास्मि इत्यस्य महत्त्वम्–एतद्महावाक्यम् ऋचां मूर्धा, यजुषाम् उत्तमाङ्गम्, साम्नां शिर: अथर्वणस्य च मुण्डम् अस्ति, तम् अविज्ञाय वेदाध्ययनं नाम वेदस्य शिरश्छेदनम् एव इति उक्तम्।
√ सार्थवेदाध्ययनस्य महत्त्वम्– अर्थविहीनं वेदाध्ययनं कुर्वाण: स्थाणु: एव इति उक्तम्–
योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा।।
# यजुर्वेदस्य आरण्यकानि–
१) शुक्लयजुर्वेदस्य माध्यन्दिनी काण्वा च उभयोरपि एकमेव आरण्यकं बृहदारण्यकम् इति नाम्ना ज्ञायते। एतस्य उपनिषद्रूपेणैव अधिका प्रसिद्धि: अस्ति। अत: तदनन्तरम् उपनिषत्प्रकरणे विविच्यते।
२) तैत्तिरीयारण्यकम् – तैत्तिरीयाण्यके दश प्रपाठका: सन्ति। एते सामान्यत: ‘अरण’-संज्ञया ज्ञायन्ते। प्रत्येकं प्रपाठकस्य नामकरणं तस्य आद्यपदेन भवति। यथा प्रथमप्रपाठकस्य आरम्भे भद्रं कर्णेभि: श्रुणुयाम देवा: इत्येष: प्रसिद्ध: मन्त्र: अस्ति अत: तस्य नाम भद्रप्रपाठक: इति। भद्र: सहवै, चिति:,युञ्जते, दवे वै, परे,शिक्षा, ब्रह्मविद्या, भृगु:, नारायणीय: एतानि दश प्रपाठकानां क्रमश: नामानि विद्यन्ते।
प्रथमप्रपाठके आरुणकेतु-नाम्न: अग्ने: उपासना, तदर्थम् इष्टकाचयनं च एतस्य वर्णनम् अस्ति। द्वितीयप्रपाठके स्वाध्यायविषये वर्णनम् अस्ति। दिने नियमपूर्वकम् एक: अपि मन्त्र: सम्यगधीतश्चेत् तत् पर्याप्तमिति उक्तम्। अनेन प्रसङ्गेन यज्ञोपवीतस्य प्रथमवारमेव विधानं प्राप्यते। पञ्चमहायज्ञानां विवेचनमत्र लभ्यते। तृतीये प्रपाठके चातुर्होत्रचिति:, चतुर्थे प्रवर्ग्यहोम: च एतयो: विवेचनं कृतम्। तत्रैव कुरुक्षेत्रं खाण्डववनं च एतयो: भौगोलिकप्रदेशयो: उल्लेख: लभ्यते। शत्रुनाशार्थम् अभिचारमन्त्राणामपि अत्रैव उल्लेख: अस्ति। पञ्चमे यज्ञीयसङ्केतानां विवरणम्, षष्ठे पितृमेधसम्बद्धमन्त्राणां सङ्कलनं च लभ्यते। सप्तमत: नवमपर्यन्तं प्रपाठका: तैत्तिरीयोपनिषद् इति नाम्ना तथा च दशम: प्रपाठक: महानारायणीयोपनिषद् इति नाम्ना प्रसिद्ध: अस्ति।
# तैत्तिरीयारण्यकस्य वैशिष्ट्यानि–
√ व्यासमुने: पाराशर्यनाम्ना उल्लेख:, सूर्यनमस्कारस्य च उल्लेख:।
√ ब्राह्मणेषु इव अत्रापि केषाञ्चन शब्दानाम् अर्थनिर्वचनस्य प्रयास: अत्र कृत: अस्ति। उदाहरणार्थं कश्यपशब्दस्य सूर्य: इति अर्थ: दत्त:। सर्वं पश्यतीति पश्यक: एतस्य वर्णव्यत्यासात् कश्यपशब्द: प्राप्यते।
√ तैत्तिरीय तथा महानारायणोपनिषद् इति उपनिषद्द्वयम् अस्य आरण्यकस्य भागोस्ति।
√ अभिचारमन्त्रोल्लेख: अस्य ब्राह्मणस्य वैशिष्ट्यम्। अभिचारमन्त्रे ‘छिन्धि, भिन्धि, जहि, फट्’ एतेषां हिंसार्थानां शब्दानाम् उपस्थिति: दृश्यते।
√ ब्रह्मयज्ञ:, देवयज्ञ:, पितृयज्ञ:, नृयज्ञ:, भूतयज्ञ: एतेषां पञ्चमहायज्ञानां महत्त्वमत्र विवृतम्। मनौ पञ्चमहायज्ञानां स्वरूपम् एवं वर्णितम्–
होमो दैवो बलिर्भौतो नृयज्ञोतिथिपूजनम्।।
केचन ब्रह्मयज्ञेन सन्ध्यावन्दनमिति स्वीकुर्वन्ति। मातापित्रो: सेवा अथवा पितृ२नुद्दिश्य श्राद्ध-तर्पणादि: पितृयज्ञ:, दैनिकम् अग्निहोत्रं दैवयज्ञ:, भूतेभ्य: (पशुपक्षिभ्य:) अन्नप्रदानं भूतयज्ञ: तथा च अभ्यागतस्य सत्कार: नृयज्ञ: इति उच्यते। एते पञ्च महायज्ञा: प्रतिदिनम् अनुष्ठेया: इति प्रतिपादितम्।
३) मैत्रायण्यारण्यकम्– एतदेवारण्यकं मैत्रायण्युपनिषद् इति नाम्ना ज्ञायते। एतस्मिन् सप्त प्रपाठका: सन्ति। तेषां विषया: एवम्–
प्रथमे तथा द्वितीये प्रपाठके बृहद्रथराज्ञ: वैराग्यप्राप्ति: शाकायन्यमुनिना तस्मै दत्त: ब्रह्मोपदेशश्च एतौ विषयौ स्त:। तृतीये जीवात्मन: स्वरूपं कर्मफलं पुनर्जन्म च एतेषां विषये विवेचनम्, चतुर्थे ब्रह्मसायुज्यप्राप्ते: उपाया:, पञ्चमे नानारूपेषु ब्रह्मण: व्याप्ति:, षष्ठे ओङ्कार:, प्रणव: उद्गीथ: गायत्री एतेषाम् उपासना, आत्मयज्ञ:, षडङ्गयोग:, शब्दब्रह्म, निर्विषयमनद्वारा मोक्षप्राप्ति: एते विषया: चर्चिता:। सप्तमे आत्मस्वरूपस्य वर्णनं कृतम् अस्ति।
एतस्मिन्नारण्यके प्रतिपादिता: महत्त्वपूर्णा: विषया: एवं सन्ति–
√ ओङ्कारमहिमा– ओङ्कार: एव प्रणव:, उद्गीथश्च। एतेनैव साधनेन ब्रह्मोपसाना कर्तव्या। य: उद्गीथ: स प्रणव: एतद् ब्रह्म। तस्मात् ओमित्यनेनैतद् उपासीत।
√ ब्रह्मण: नैकानि रूपाणि– ब्रह्मा, विष्णु: रुद्र: प्रजापति: इत्यादीनि एकस्य ब्रह्मतत्त्वस्यैव आविष्करणानि सन्ति–
त्वमग्निर्वरुणो वायु: त्वमिन्द्रस्त्वं निशाकर:।।
√ वेदा: ब्रह्मण: निश्वास:-- एतस्य महतो भूतस्य नि:श्वसितमेतद्यदृग्वेदो यजुर्वेद: सामवेदोथर्वाङ्गिरस:।
√ चक्रवर्तिराजान:-- पञ्चदशानां चक्रवर्तिराजानाम् उल्लेख: आरण्यके प्राप्यते।
√ मन: एव सर्वासां बौद्धिकक्रियाणां सञ्चालकम्। कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः ह्रीः धीः भीः इत्येतत् सर्वं मन एव । तस्य शुद्ध्या एव मोक्ष: प्राप्यते।
√ ज्ञानस्य मार्गे ये विघ्ना: आयान्ति तेषाम् एका बृहत् आवलि: अत्र दत्ता। मनोरञ्जनप्रियता, प्रवास:, कुतर्क: इत्यादय: ज्ञानप्राप्तये विघ्ना: भवन्ति।
√ जीवात्मन: अङ्गुष्ठमात्रं रूपं वर्णितम्। —अङ्गुष्ठमात्रम् अणोरपि अणुम्।
# सामवेदस्य आरण्यके–
१) तलवकार-आरण्यकम्– एतत् सामवेदस्य जैमिनीयशाखासम्बद्धम् आरण्यकम्। एतस्मिन् चत्वार: अध्याया: सन्ति। चतुर्थाध्यायस्य दशम: अनुवाक् एव प्रसिद्धं तवल्कारोपनिषद् अथवा केनोपनिषद् अस्ति। आरण्यके आगता: प्रमुखा: विषया: एवम्–
√ ओङ्कार: तथा गायत्री– ओम् इति परमं ज्ञानम्। तद्बुद्धे: कारणम् अस्ति। तस्मात् गायत्री समुत्पन्ना। गामत्र्या एव प्रजापति: इतरे देवा अपि अमृतत्वं प्राप्नुवन्।
तदेतदमृतं गायत्रम्। एतेन वै प्रजापतिरमृतत्त्वमगच्छत्। एतेन देवा:। एतेन ऋषय:। एतत् पवित्रं ज्ञानं सर्वप्रथमं कश्यपेन प्राप्तम्।
√ वेदात् एव सृष्टे: आरम्भ: उक्त:।
√ अतिमानवीयशक्तीनां प्राप्त्यर्थं कतिपयसाधनानाम् उल्लेख: अत्र प्राप्यते।
√ प्रेतात्मद्वारा साधकस्य मार्गदर्शनं, मृतानां पुन:प्रकटनम् इत्यादय: अन्यत्र अनुपलभ्यमाना: मान्यता: अत्र उल्लिखिता:।
√ सामगानस्य आध्यात्मिकी, आधिभौतिकी, आधिदैविकी च व्याख्या कृता अस्ति।
√ कतिपयानि दैवशास्त्रीय-आख्यानानि, भाषाया: प्राचीना शब्दावलि: अपि अत्र लभ्यते।
२) छान्दोग्य-आरण्यकम् – एतत् ताण्ड्यशाखासम्बद्धम् आरण्यकम्। छान्दोग्योपनिषद: एव कश्चन आरम्भिकभाग: छान्दोग्यारण्यकम् इत्युच्यते। तत्र साम तथा उद्गीथ: एतयो: धार्मिकव्याख्यानं प्राप्यते।
# अथर्ववेदस्य आरण्यकम् –
पूर्वगोपथब्राह्मणस्य प्रथमत: पञ्चमपर्यन्तं प्रपाठका: तथा उत्तरगोपथस्य प्रथमत: षष्ठपर्यन्तं प्रपाठकानां परिशीलने आरण्यकसदृशविषया: प्राप्यन्ते। अत: डॉ कपिलदेव द्विवेदिमहाभागा: गोपथारण्यकं चर्चयन्ति। तथापि अथर्ववेदस्य पृजक् आरण्यकम् अनुपलब्धमेव।