# उपनिषद्वाङ्मयम्–
उपनिषद: वैदिकवाङ्मस्य अन्तिमो भाग:। अत: स: वेदान्त: इत्यपि कथ्यते। वैदिकचिन्तनस्य परिनिष्ठितं सारभूतं विकसितं रूपम् उपनिषत्सु प्राप्यते । वेदमूलस्य भारतीयजीवनदर्शनस्य स्रोतांसि उपनिषद: एव।
उप तथा नि इति प्रादिद्वयेन सह षदलृ विशरणगत्यवसादनेषु इति धातो: क्विप् प्रत्यये कृते उपनिषच्छब्द: सिध्यति। विशरणं नाश:, गति: गमनं प्रापणं वा, अवसादनं शिथिलीकरणम्। आचार्यशङ्करेण उपनिषद्-शब्दस्य ब्रह्मविद्या इति अर्थ: कठोपनिषद्भाष्ये कथितोस्ति। आचार्यमतेन ब्रसह्मविद्यापरा: उपनिषद: संसारमूलाया: अविद्याया: नाशं कुर्वन्ति २) ब्रह्म प्रापयन्ति ३) संसारदु:खबन्धनं शिथिलीकुर्वन्ति। अमरकोषे “धर्मे रहसि उपनिषद्” इति उक्तम्। तन्नाम उपनिषद् गूढं धर्मरहस्यं प्रतिपादयति।
उपनिषद: भारतीयतत्त्वचिन्तनस्य सार: एव। गीतामाहात्म्ये ताभ्य: गवाम् उपमा प्रदीयते–
पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतिमृतं महत्।।
तासां अनन्यसाधारणदार्शनिकमहत्त्वात् विश्वस्य नैकासु भाषासु उपनिषदाम् अनुवाद: जात: अस्ति। वेदान्तदर्शनम् इति भारतीयदर्शनेषु नितान्तमहत्त्वयुतं दर्शनम्। तस्याधारभूता: त्रिप्रकारका: ग्रन्था: सन्ति– उपनिषद:, ब्रह्मसूत्राणि तथा भगवद्गीता। एते वेदान्तदर्शनस्य प्रस्थानत्रयम् इति नाम्ना प्रसिद्धा:।
उपनिषत्सु कतिचन वाक्यानि द्वैतपराणि कानिचन अद्वैतपराण्यपि लक्ष्यन्ते। तेषां आपातत: य: विरोध: तं निराकर्तुं भगवता व्यासेन ब्रह्मसूत्राणि रचितानि। भगवद्गीता तु उपनिषदां भाष्यमेव। अत: वेदान्तदर्शनस्य सर्वप्रधान: आधार: उपनिषद: एव।
उपनिषदां सङ्ख्या अगणिता। तथापि शुक्लयजुर्वेदस्य मुक्तिकोपनिषदि प्रथमाध्याये १०८ उपनिषद: महत्त्वपूर्णा: इत्युक्त्वा तासां नामानि परिगणितानि। तासु ऋग्वेदसम्बद्धा: १० शुक्लयजुर्वेदसम्बद्धा: १९ कृष्णयजुर्वेदसम्बद्धा: ३२ सामवेदसम्बद्धा: १६ तथा अथर्ववेदसम्बद्धा: ३१ उपनिषद: सन्ति। तास्वपि १३ उपनिषद: अतिप्राचीना: महत्त्वपूर्णा: इति मन्यते।
ऐतरेयं छान्दोग्यं च बृहदारण्यकं तथा।।
एतस्यां कारिकायां दशानां प्राचीनोपनिषदां नामानि परिगणितानि। ता: विहाय कौषीतकि: श्वेताश्वतरं मैत्रायणी च एता: तिस्र: अपि महत्त्वपूर्णा:। आचार्यशङ्करेण कारिकायामुल्लिखितानाम् १० उपनिषदां भाष्याणि लिखितानि सन्ति। इतराभ्य: तिसृभ्य: च कतिपयोद्धरणानि स्वभाष्येषु प्रदत्तानि सन्ति।
# ऋग्वेदसम्बन्धिनी उपनिषदौ–
१) ऐतरेयोपनिषद् – ऐतरेयकारण्यकस्य द्वितीयाध्याये चतुर्थ: पञ्चम: षष्ठ: इत्येतत् खण्डत्रयम् ऐतरेयोपनिषद् इति नाम्ना प्रसिद्धम्।
तत्र प्रथमे खण्डे परमात्न: ईक्षणशक्ते: प्रभावात् जगत: उत्पत्ति: उक्ता। मनुष्यस्य शरीरमेव सर्वेषां देवानां निवासस्थानम् अस्ति इति विचार: अत्र दृश्यते। द्वितीये खण्डे पुनर्जन्मसिद्धान्त: तथा च कर्मानुसारं विभिन्नयोनिषु जीवस्य जन्मप्रापणम् एतस्य वर्णनम् अस्ति। तृतीयाध्याये मन: एव ब्रह्म, इन्द्र: प्रजापतिश्च अस्तीति कथितम्। प्रज्ञानं ब्रह्म इति महावाक्यम् अत्र उपलभ्यते। जारज-अण्डज-स्वेदज-उद्भिज्जरूपाया: चतुर्विधाया: प्राणिसृष्टे: वर्णनमपि अत्र कृतम्।
२) कौषीतकि-उपनिषद्– कौषीतकि-आरण्यकस्य तृतीयाध्यायात् षष्ठाध्यायपर्यन्तं चत्वार: अध्याया: कौषीतकि-उपनिषद् नाम्ना ज्ञायन्ते।
एतेषु चतुर्षु अध्यायेषु प्रथमे मृत्यो: अनन्तरं देवयानमार्गेण अथवा पितृयानमार्गेण जीवस्य गमनप्रकार: वर्णित: अस्ति। द्वितीयाध्याये आत्मन: प्रतीकरूपेण प्राणस्य वर्णनम् अस्ति। प्राण: एव ब्रह्म अस्ति। मन: तस्य दूत: नेत्रं तस्य रक्षक:, श्रोत्रं द्वारपाल: वाणी च दासी। य: एतेषां स्वरूपं जानाति स एव इन्द्रियनिग्रहे समर्थ: भवति। तृतीये अध्याये इन्द्र: दिवोदासस्य प्रतर्दननामकाय पुत्राय प्राण: तथा प्रज्ञा इत्यनयो: विषये उपदेशं ददाति। प्राणविद्याया: विशदं विवेचनम् अत्र कृतम्। चतुर्थाध्याये बलाकापुत्र: गार्ग्य: तथा काशिराज: अजातशत्रु: अनयो: संवाद: अस्ति। अजातशत्रु: गार्ग्याय ब्रह्मविद्याम् उपदिशति।
# यजुर्वेदसम्बन्धिन्य: उपनिषद:–
अ) शुक्लयजुर्वेद:--
१) ईशावास्योपनिषद्– शुक्लयजुर्वेदस्य चत्वारिंशत्तम: अध्याय: ईशावास्योपनिषद् इति नाम्ना ज्ञायते। एतस्या: प्रारम्भे ‘ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्’ एष: मन्त्र: अस्ति अत: तस्य आद्यशब्दानुसारेण एषा ईशोपनिषद् अथवा ईशावास्योपनिषद् इति कथ्यते। एतस्यां केवलं १८ मन्त्रा: सन्ति। तथापि वैदिकतत्त्वज्ञानस्य सार: एव एतेषु मन्त्रेषु सङ्गृहीतम्।
एषा प्रवृत्तिपरम् उपनिषद् इति उच्यते। सर्वं जगत् ईश्वरेण आच्छाद्य स्वानि कर्माणि च कुर्वन् शतं वर्षाणि जीवितुं काङ्क्षेत इति उपनिषद: उपदेश:। अन्यस्य वित्तस्य लोभ: मास्तु त्यागानन्तरमेव भोग: भोक्तव्य: इति जीवनविषयकं मार्गदर्शनम् अत्र अस्ति।
२) बृहदारण्यकोपनिषद् – शुक्लयजुर्वेदस्य माध्यन्दिनी तथा काण्वा इत्यनयो: उभयो: शाखयो: सम्बद्धं यत् शतपथब्राह्मणं तस्य १४ काण्डस्य अन्तिमा: षट् अध्याया: बृहदारण्यकोपनिषद् इति नाम्ना ज्ञायन्ते। एतत् ब्राह्मणम्, आरण्यकम् तथा उपनिषद् एताभि: त्रिभि: संज्ञाभि: निगदितुं शक्यते। सर्वासूपनिषत्सु एषा दीर्घतमा उपनिषद् अस्ति।
एतस्या: प्रथमाध्याये परमात्मन: यज्ञीयाश्वरूपेण वर्णनम्, मृत्यो: विकरालता, प्राणस्य श्रेष्ठता एतेषां वर्णनम् अस्ति। द्वितीये गार्ग्य: तथा काशिराज: अजातशत्रु: एतयो: संवाद:, याज्ञवल्क्येन सह तस्य पत्न्यो: कात्यायनीमैत्रेय्यो: संवाद:, ब्रह्मण: द्विविधरूपयो: मूर्तामूर्तयो: वर्णनं च अस्ति। तृतीयाध्याये जनकसभायां गार्गी तथा याज्ञवल्क्य: अनयो: संवाद: याज्ञवल्क्यद्वारा प्रतिस्पर्धिनां पराजय: एतस्य वर्णनं प्राप्यते। चतुर्थे याज्ञवल्क्यद्वारा जनकाय ब्रह्मोपदेश: पुनश्च याज्ञवल्क्येन कृतं स्वसम्पत्ते: विभाजनं मैत्रेय्यै च दत्त: ब्रह्मोपदेश: अस्ति।पञ्चमे प्रजापतिना देवमनुष्यराक्षसेभ्य: कृत: दकारोपदेश:, ब्रह्मण: विविधरूपाणां वर्णनम्, गायत्र्या: विविधरूपाणि एतेषां विवेचनम् अस्ति। षष्ठे प्राणस्य श्रेष्ठता, प्रवहणजैवलि- श्वेतकेतु-संवाद:, पञ्चाग्निमीमांसा, ऋषिपरम्परावर्णनम् एते विषया: सन्ति।
आ) कृष्णयजुर्वेद:--
१) कठोपनिषद् – कृष्णयजुर्वेदस्य कठशाखासम्बद्धा एषा उपनिषद् अत: कठोपनिषद् इति नाम्ना प्रसिद्धा। एतस्यां द्वौ अध्यायौ तथा प्रत्येकम् अध्याये त्रय: खण्डा: सन्ति। एतस्यां यमनिचिकेतसो: संवाद: तथा यमेन नचिकेतसे दत्त: ब्रह्मोपदेश: इति मुख्यविषय: अस्ति।
२) तैत्तिरीयोपनिषद् – तैत्तिरीयारण्यकस्य अन्तिमा: त्रय: (सप्तम:, अष्टम: नवमश्च) प्रपाठका: तैत्तिरीयोपनिषद् इति नाम्ना प्रसिद्धा:। उपनिषदि ते नामपरिवर्तनं प्राप्तवन्त:। आरण्यकस्य संहितोपनिषद्-नामक: सप्तम: अध्याय: उपनिषदि शिक्षावल्ली इति नाम्ना तथा वारुणी-उपनिषद् नाम्ना प्रसिद्धौ अष्टमनवमश्चाध्यायौ क्रमश: ब्रह्मानन्दवल्ली तथा भृगुवल्ली इति नामभ्यां ज्ञायेते।
शिक्षावल्ल्यां उच्चारणविषयकानां वर्ण: स्वर: मात्रा बलं साम सन्तान: इत्येतेषां घटकानां वर्णनं, वैदिकमन्त्रोच्चारणप्रकारा:, आचार्यद्वारा शिष्यस्य अनुशासनस्य पद्धति: एतेषां विवेचनम् अस्ति। ब्रह्मानन्दवल्ल्याम् ‘आनन्द: एव ब्रह्म’ इति ब्रह्मस्वरूपवर्णनम् अस्ति। जीवस्य अन्नप्राणमनोविज्ञानानन्दमयानां पञ्चकोशानां विवेचनं कृतम्। भृगुवल्ल्यां वरुण: तथा भृगु: एतयो: संवाद: तस्मिन् च ब्रह्मण: स्वरूपस्य विवेचनं पञ्चकोशानां विराट् स्वरूपस्य च वर्णनं प्राप्यते।
३) मैत्रायण्युपनिषद् – एतत् कृष्णयजुर्वेदस्य मैत्रायणीशाखासम्बद्धम्। सर्वा: प्राचीनोपनिषद: इव एतदपि गद्यस्वरूपम्। एतस्यां सप्त अध्याया: सन्ति। तेषु षष्ठाध्ययस्य अन्तिमा: अष्टौ प्रपाठका: तथा च सप्तम: प्रपाठक: परिशिष्टरूप:। अष्टाङ्गयोग: हठयोग: च एतयो: विवेचनम् आत्मविद्यया सह अत्र प्राप्यते। वेदविरोधिसम्प्रदायानामपि उल्लेख: अत्र विद्यते।
विषयविवेचनं त्रयाणां प्रश्नानाम् उत्तररूपेण अत्र प्रस्तुतम्। प्रथम: प्रश्न: अस्ति भौतिकशरीरे आत्मा कथं प्रविशति इति। एतस्य उत्तरं दत्तं यत् स्वयं प्रजापति: एव पञ्चप्राणा: भूत्वा स्वरचितशरीरे सचेनतां निवेषितुं प्रविशति।
द्वितीय: प्रश्न:--परमात्मा जीवात्मरूपेण कथं परिणत: भवति इति। एतस्योत्तरं साङ्ख्यसिद्धान्तानुसारं दत्तं यत् आत्मा प्रकृतिगुणवशीभूत: स्वस्य स्वरूपं विस्मृत्य बद्ध: भवति ततश्च पुन: आत्मज्ञानार्थं मोक्षार्थं वा प्रयतते।
तृतीय: प्रश्न: अस्ति–दु:खात् मुक्ति: कथं लभ्येत इति। उत्तरम् उक्तं यत् वर्णाश्रमधर्मस्य पालनकर्ता ब्राह्मण: ज्ञानं तप: निदिध्यासनम् एतै: साधनै: ब्रह्मज्ञानं मोक्षं च अवाप्नोति। एतसयामुपनिषदि अग्नि: वायु: सूर्य: एता: प्रधानदेवता:, काल:, प्राण: अन्नं च तथैव ब्रह्मविष्णुमहेश्वरा: अपि ब्रह्मण: विविधरूपाणीति वर्णितम्।
एतस्या: परिशिष्टे सृष्ट्युपाख्यानम् अस्ति। प्रकृते: सत्त्वादय: गुणा: ब्रह्मविष्णुमहेशै: सह क्रमश: सम्बद्धा: सन्तीति उक्तम्। साङ्ख्यसिद्धान्तानुसारमत्र सृष्टिप्रक्रिया वर्णिता।
४) श्वेताश्वतरोपनिषद् – एषा उपनिषद् कृष्णयजुर्वेदसम्बद्धा। एतस्या: रचना कठोपनिषद: अनन्तरं जातेति विद्वांस: मन्यन्ते यत: कठोपनिषद: बहव: श्लोका: अत्र यथायथं स्वीकृता: सन्ति। एतस्याम् आहत्य षट् अध्याया: तथा च ११३ मन्त्रा: विद्यन्ते।
प्रथमाध्याये त्रैतम्, मायावाद:, क्षराक्षरतत्त्वे , हत्यम्, तप: एते विषया: सन्ति। द्वितीये योग: तस्य विधि: ब्रह्मतत्त्वम् एतेषां विस्तृतं विवेचनम् उपलभ्यते। तृतीये परमेश्वरस्य रुद्ररूपेण वर्णनम्, जीवात्मन: स्वरूपं च उक्तम्। चतुर्थे एकेश्वरवाद: त्रैतम्, माया तथा मायिरूप: महेश्वर: एतेषां वर्णनम् अस्ति। पञ्चमे क्षराक्षरतत्त्वे जीवात्मा च अनयो: विषये विवेचनं षष्ठे च एकस्यैव ब्रह्मण: विविधनामानि, जीवप्रकृत्यो: नियन्ता ईश्वर:, गुरुभक्ति: इत्यादय: विषया: सन्ति।
अस्यामुपनिषदि भक्तितत्त्वम्, साङ्ख्यतत्त्वानि चैतेषां विस्तृतं विवेचनम् अस्ति। साङ्ख्यानां या प्रकृति: सैव माया तथा महेश्वर: तस्या: नियन्ता मायी इत्युच्यते। अन्यत्र वेदान्तेषु माया मिथ्येति कल्पना तथापि तस्या: मिथ्यात्वम् अत्र दृग्गोचरं न भवति। मायाशक्ति: ईश्वरस्य सत्स्वरूपा शक्ति: तया निर्मितं जगदपि न मिथ्या। कल्पान्ते एतत् मायानिर्मितं जगत् ब्रह्मणि विलीनं भवति। उपनिषदि शिव: एव सर्वव्यापी परमेश्वर: तस्य च ज्ञानेन मुक्तिलाभ: भवतीति प्रतिपादितम्।
# सामवेदसम्बन्धिन्य: उपनिषद:--
१) केनोपनिषद् – एतत् तवलकारोपनिषद् अथवा जैमिनीयोपनिषद् इति नाम्नापि प्रसिद्धम्। अस्यां चत्वार: खण्डा: सन्ति तेषु प्रथमद्वयं पद्यात्मकम् अवशिष्टद्वयं च गद्यात्मकम् अस्ति।
प्रथमे खण्डे निर्गुणब्रह्मतत्त्वस्य विषये चर्चा वर्तते। ब्रह्म पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि च एतेषां परे वर्तते। तथापि एतानीन्द्रियाणि तस्य सत्तयैव कार्यं कुर्वन्ति।
द्वितीयखण्डे ब्रह्मतत्त्वस्य अनिर्वचनीयस्वरूपं तथा ब्रह्मज्ञानेनैव जीवनस्य सार्थकता अस्ति इति वर्णनम् अस्ति। तृतीये तथा चतुर्थे खण्डे हैमवत्युमाया: आख्यानम् अस्ति। अग्न्यादय: देवा: असुरान् पराजयन्। तेषां स्वसामर्थ्यविषये अङ्कार: समुदपद्यत। तेषां गर्वहरणाय ब्रह्म यक्षरूपं धृत्वा तेषां समक्षं प्रकटितम् अभवत्। तेन च अग्निवाय्य्वो: गर्वहरणं कृतम्। अनन्तरं हैमवत्या उमया अग्न्यादिभ्य: देवेभ्य: ब्रह्मोपदेश: दत्त:।
२) छान्दोग्योपनिषद् – सामवेदस्य तलवकारब्राह्मणे दश अध्याया: विद्यन्ते। तेषु आद्यद्वयं विहाय अवशिष्टा: अष्ट अध्याया: छान्दोग्योपनिषद् इति नाम्ना ज्ञायन्ते। प्रत्येकम् अध्याये कतिचन खण्डा: सन्ति।
प्रथमाध्याये ओङ्कार: उद्गीथ: तथा साम एतेषां गूढत्त्वानां विवेचनं वर्तते। द्वितीये ओङ्कारोत्पत्ति:, पञ्चविधा सामोपासना, सप्तविधं साम, त्रयी विद्या तथा धार्मिकजीवनस्य ब्रह्मचर्यगार्हस्थ्यसन्न्यासा: इत्येतत् आश्रमत्रयं विवेचितम्। तृतीये वैश्वानरब्रह्मण: उपासना कथिता यस्य व्यक्तं रूपं सूर्य: अस्ति। सूर्यस्य देवमधुरूपेण उपासना, गायत्रीवर्णनम्, अङ्गीरसद्वारा देवकीनन्दनकृष्णाय अध्यात्मोपदेश:, हिरण्मयाण्डात् सूर्योत्पत्ति: इत्यादय: विषया: वर्णिता:।
चतुर्थे सत्यकामजाबालस्य कथा, उपकौशलाय जाबालस्य उपदेश:, रैक्वस्य उपदेश: एते विषया: सन्ति। पञ्चमे बृहदारण्यकस्य षष्ठाध्याये उक्तानां विषयानां पुनरुच्चार: अस्ति।अत्र श्वेतकेतु: प्रवाहणजैवालि: च अनयो: दार्शनिकसंवाद: अस्ति तथा च कैकय-अश्वपते: सृष्टितत्त्वानि विवृतानि येषु षण्णां तत्त्वचिन्तकानाम् आत्मविषयकविचारा: प्रस्तुता: सन्ति। षष्ठे अध्याये उद्दालक-आरुणि: तथा श्वेतकेतु: अनयो: संवाद: वर्तते। आरुणि: स्वपुत्राय ब्रह्मोपदेशं ददाति। ‘तत्त्वमसि’ एतत् महावाक्यम् अस्मिन्नेव अध्याये वर्तते।
सप्तमाध्याये नारद: सनत्कुमारश्च अनयो: वृत्तान्त: अस्ति। सनत्कुमार: नारदाय ब्रह्मोपदेशं ददाति। अष्टमाध्याये आत्मन: जाग्रत्, स्वप्न: सुषुप्तिश्च एतासामवस्थानां विवेचनं कृतम्। अत्र आत्मज्ञानस्य व्यावहारिकोपाया: अपि कथिता: सन्ति। अस्य अध्यायस्य अन्ते इन्द्र-विरोचनकथा वर्णिता अस्ति।
# अथर्ववेदस्य उपनिषद:--
१) प्रश्नोपनिषद् – एषा अथर्ववेदस्य पैप्पलादशाखासम्बद्धा उपनिषद् अस्ति।
एतस्यामुपनिषदि पिप्पलादर्षे: षट् शिष्या: तं षट् प्रश्नान् पृच्छन्ति ततश्च पिप्पलाद: तेषां समाधानं ददाति अत: एषा प्रश्नोपनिषद् इति नाम्ना प्रसिद्धा। ते प्रश्ना: एवम्–१) एता: प्रजा: कस्माज्जायते? २) कति देवता: एता: प्रजा: धारयन्ति? ३) प्राणा: कुत: जायन्ते? ४) जाग्रत् स्वप्न: सुषुप्तिश्च एतासाम् आत्मावस्थानां किं रहस्यम्? ५) ओङ्कारोपासनस्य किं स्वरूपम्? ६) षोडशकलायुक्तस्य पुरुषस्य किं स्वरूपम्?
२) मुण्डकोपनिषद् – प्राय: मुण्डितमस्तकानां संन्यासिनां सम्प्रदायसम्बद्धा एषा उपनिषत् स्यात्। एतस्य त्रय: भागा: मुण्डकम् इति नाम्नैव ज्ञायन्ते। ब्रह्मदेव: स्वपुत्राय अथर्वणे ब्रह्मोपदेशं दत्तवानिति वर्णनम् अस्ति। याज्ञिकानुष्ठानानां गौणत्वं ब्रह्मज्ञानस्य प्रधानत्वं च अत्र दर्शितम् अस्ति। साङ्ख्यानां सिद्धान्ता: अत्र प्राप्यन्ते। ‘द्वा सुपर्णा…’ इति द्वैतवादपर: प्रसिद्ध: मन्त्र: अत्रैव प्राप्यते। भारतस्य राजमुद्रायाम् अङ्कितं ‘सत्यमेव जयते’ इत्येतत् ध्येयवाक्यम् एतास्या: एव उपनिषद: अस्ति।
३) माण्डूक्योपनिषद्– आकारदृष्ट्या एषा लघुतमा उपनिषद्। अस्यां १२ मन्त्रेषु ओङ्कारस्य विस्तृता व्याख्या कृतास्ति। आत्मन: जाग्रत् स्वप्न: सुषुप्ति: तथा चतुर्थी अवस्था एतासां विवरणं तासामनुसारेण च वैश्वानर: तैजस: प्राज्ञ: इति नामभि: आत्मन: वर्णनं कृतम्। चतुर्थावस्था एव आत्मन: यथार्थरूपम्, स एव मोक्ष:, तत्प्राप्तुं प्रयतितव्यमिति उपनिषद: अभिप्राय:।
# महावाक्यानि–
ब्रह्मस्वरूपं तथा ब्रह्मात्मैक्यं प्रतिपादयन्ति चत्वारि उपनिषद्वाक्यानि अद्वैतवेदान्ते अत्यन्तं महत्त्वपूर्णानि अत एव महावाक्यानि इति गण्यन्ते। तानि चतुर्णां वेदानां प्रतिनिधित्वं कुर्वन्ति इत्यपि अवधारणा। तान्येवं सन्ति–
१) अहं ब्रह्मास्मि। एतत् वाक्यं बृहदारण्यकोपनिषद: वर्तते। एषा उपनिषद् यजुर्वेदसम्बद्धा। “अहम् ,अहम् इति य: सर्वेषां प्रत्यय: स: मूलत: ब्रह्मस्वरूप: एव” इति एतस्य वाक्यस्य अर्थ:।
२) अयमात्मा ब्रह्म। अथर्ववेदस्य प्रातिनिधिकमेतत् वाक्यं माण्डूक्योपनिषदि विद्यते। सर्वेषां य: आत्मा स: ब्रह्मस्वरूप: एव।
३) तत् त्वम् असि। एतत् छान्दोग्योपनिषद: वाक्यं सामवेदस्य प्रतिनिधि:। तत् पदार्थेन ब्रह्मनिर्देश:। त्वम्पदार्थ: जीवात्मन: निर्देशक:। जीवब्रह्मयो: ऐक्यमस्ति इति वाक्यार्थ:।
४) प्रज्ञानं ब्रह्म। एतत् ऋग्वेदस्य प्रतिनिधिवाक्यं ऐतरेयोपनिषद:। ब्रह्म ज्ञानस्वरूपमिति ब्रह्मण: स्वरूपलक्षणम् अत्र दत्तम्।
एतेषां महावाक्यानाम् अर्थस्य सन्ततचिन्तनं निदिध्यासनमित्युच्यते। तेन आत्मसाक्षात्कारो भवतीति वाक्यसाक्षात्कारवादिनां मतम्।